________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
१०६१
परपाषण्डिप्रशंसायां कथा -
नगरे पाटलीपुत्रे, चन्द्रगुप्तः क्षितीश्वरः । चाणिक्यो मन्त्रिमाणिक्यो, हृतवान् भिक्षुर्वैर्त्तनम् ॥१। ततस्ते धर्ममाचख्युर्भूपतेः सोऽपि तुष्टवान् । विलोकते मन्त्रिमुखं, मन्त्री वक्ति न किञ्चन ॥२॥ मन्त्रिप्रियाऽवलगिता, तैस्तयाऽ भाणि धीसखः । ततस्तत्कथितं सूक्तमित्यूचेऽग्रे नृपं सुधीः |३| ततस्तुष्टो नृपस्तेषां तचान्यच धनं ददौ । द्वितीयेऽहनि चाणिक्योऽवदद् दत्तं कथं त्वया ॥४॥ राजोचे वः प्रशंसातो, दीयते स्म मयाऽऽर्थक ! । सूक्तं पठितमित्येवाऽभाणि शंसा तु नो कृता ॥५॥ सर्वारम्भवृत्तानां केषां शंसाऽथ स स्थितः । इदृशाः स्युः कियन्तस्तन्न कार्यं तत्प्रशंसनम् ॥६॥ परपाषण्डिसंस्तवे रक्तांशुकव्यामूढश्रावककथा प्रागुक्तैव ।
*************
'थूलगपाणाइवायं समणोवासओ पञ्चक्खाइ से य पाणाइवाए दुविहे पन्नत्ते, तं जहा संकप्पओ आरंभओ य, तत्थ समणोवासओ संकप्पओ जावज्जीवं पञ्चक्खाइ, णो आरंभओ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, न समायरियव्वा, तं जहा बंधे वधे छविच्छेदे अतिभारे भत्तपाणवुच्छेए' ।
१. 'वर्तनां' प, छ ख । २. 'ते' ल । परपाषण्डी सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति । तत्र क्रियावादी- १८०, अक्रियावादी ८४, अज्ञानवादी ६७, वैनयिक ३२ । सर्वसङ्ख्या ३६३ । * वर्त्तनं वृत्तिः आजिवीका इत्यर्थः ।
************
आ.नि. प्रत्याख्यानाध्ययनम् भावप्रत्याख्यानम् सम्यक्त्वातिचाराः परपाषण्डिप्रशंसायां चाणिक्योदाहरणम् अणुव्रतानि ।
गाथा - १५६१
१०६१
[५५७]