SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः अथवा विगिञ्छा विजुगुप्सा, तत्रोदाहरणं - श्राद्धः प्रत्यन्तवास्येकस्तस्य पुत्रीविवाहने । आयाताः साधवः पुत्री, पित्रोक्ता प्रतिलाभय ।। सर्वाङ्गभूषिता साऽथ, साधूंस्तान् प्रत्यलाभयत् । साध्वङ्गमलदुर्गन्धाद्, दध्यौ सा सजुगुप्सनम् ।२। अर्हद्धर्मोऽनवद्योऽयं, परं प्रासुकवारिणा । कुर्युश्चेन्मुनयः स्नान, दोषो जायेत कस्तदा ।३। तदनालोच्य मृत्वा सा, पुरे राजगृहाभिधे । उत्पेदे गणिकाकुक्षी, गर्भगाप्यरतिप्रदा ।४। नापतत् पातन: साऽथ, जाता तत्कालमुज्झिता । अभूत्तदङ्गदुर्गन्धवासितं दुर्गमं वनम् ।५। श्रीवीरं वन्दितं गच्छन्नागात्तां श्रेणिको भवम् । सैन्या न सेहिरे गन्धं, पृष्टे राज्ञा न्यवेदयन् ।६।। राजा तां स्वयमैक्षिष्ट, दुर्गन्धामथ दारिकाम् । प्रभुं नत्वाऽथ पप्रच्छ, दुर्गन्धाचरितं नृपः ।७।। तत्प्राग्भवं प्रभुः स्माह, दुर्गन्धं च जुगुप्सनात् । समाष्टकं प्रिया तेऽसौ, पात्रदानाच भाविनी ।। शुद्धान्ते क्रीडता सा च, ज्ञेया पृष्टेऽधिरोहणात् । तच्छ्रुत्वा कर्मवैचित्र्यं, ध्यायन् सौधं नृपोऽगमत् ।९। मुहूर्तेनापगन्धा तु, साऽऽभीर्याऽऽदाय वर्धिता । मातृयुग् यौवनस्थाऽगाद् द्रष्टुं सा कोमुदीमहम् ।१०। १. 'दुर्गन्धत्वं'...ल, । आ.नि. * प्रत्याख्यानाव्यवनम् भावप्रत्याख्यानम् सम्यक्त्वातिचाराः 'विगिञ्छा' विजुगुप्सायां दुर्गन्धाकथा। गाथा-१५६१ १०५९ १०५९ [५५५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy