________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
१०५५
ज्ञात्वा पलायमानं तं धृत्वा शक्रोऽधिरूढवान् । चक्रे शीर्षद्वयं सोऽथ, शक्रोऽप्यासीद् द्विमूर्तिकः | १२ | यति शीर्षाणि चक्रेऽसौ शक्रस्तति वपूंष्यपि । ततो नश्यन् स शक्रेण, हतो वज्रेण तस्थिवान् ॥१३ । एवं राजाभियोगेन दत्तेऽपि न दोषः । एवं गणाभियोगेन देवताभियोगेन वा । अत्र कथा - एकोऽजनि गृही श्राद्धः, सोऽत्यजद्व्यन्तरादिकान् । चिराराद्धानपि ततो, व्यन्तर्येका क्रुधातुरा |१| गोरक्षकं सुतं तस्य, गोभिः सममपाहरत् । तर्जयन्त्यवतीर्योचे, मामद्यापि किमुज्झसि ॥२॥ मा मे धर्मातिचारोऽभूदिति तां श्रावकोऽवदत् । भव त्वं जिनपादान्ते, स्यात्तवाऽपि यथाऽर्चना । ततस्तथैव तस्थौ सा, सुतो गोभिः सहागतः | ३ |
अथ गुरुनिग्रहे कथा -
भिक्षूपासकसूरेकः, श्राद्धपुत्रीमयाचत । न दत्ते श्रावकः सोऽथ, साधून् शाठ्येन सेवते ।१ । भावश्राद्धः क्रमाज्जातस्ततः सद्भावमूचिवान् । अतः श्राद्धेन पुत्री स्वा, दत्ता तां परिणीतवान् ॥२॥ स्थितः पृथग् गृहं कृत्वा, कुरुते धर्ममार्हतम् । पितरौ तस्य भिक्षूणां चक्रतुर्भक्तमन्यदा | ३ | १. 'क्षुधातुरा' प, खप, छल । २. स च श्राद्धः' ल ।
*************:
आ.नि. प्रत्याख्यानाध्ययनम्
भावप्रत्याख्यानम् । सम्यक्त्वातिचाररहितत्वे देवताभियोगे गृहीकथा | गुरुनिग्रहे
भिक्षूपासककथा ।
गाथा - १५६१
१०५५
[५५१]