SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः पङ्गोीतेन साक्षिप्ता, तं पतिं कर्तुमैहत । गतं गङ्गातटोद्याने, गङ्गायां पतिमक्षिपत् ।८। द्रव्ये निष्ठां गतेऽशेषे, वहन्ती मस्तकेन तम् । गायन्ती तेन सार्धं च, भिक्षते स्म गृहे गृहे ।९। किमेतदिति पृष्टाऽऽख्यत्, पितृभ्यां दत्त ईदृशः । स च भर्ता वहन् वाहे, तटमासाद्य निर्ययो ।१०। अथैकत्र पुरासन्ने, श्रान्तस्तरुतलेऽस्वपीत् । तस्योद्यत्पुण्यशेषेण, न छाया पर्यवर्सत ।११। तत्राऽपुत्रो मृतः माभृदश्वराजोऽधिवासितः । समुपेत्य स्थितः सोऽश्वो, हेषते स्म च हर्षतः ।१२। ततश्च हयहेषाभिर्नृणां जयजयारवेः । प्रबुद्धोडश्वं तमध्यास्य, नीत्वा राज्ये न्यवेश्यत ।१३। साऽपि तत्राऽऽगता राज्ञः, केनाऽपि कथिता यथा । देव ! देवाङ्गना काऽपि, पङ्गं शिरसि बिभ्रती ।१४ । दृष्टा भिक्षा भ्रमन्त्यत्र, गीतगानपरायणा । आनायिताऽथ सा राज्ञा, दृष्ट्वा पृष्टा कथं त्विदम् ।१५। साऽवददेवदत्तोऽयं, पितृभ्यां पतिरीदृशः । ततः पतिव्रतात्वेन, वहाम्येनं शिरःस्थितम् ।१६ । राज्ञोक्तं-बाहुभ्यां शोणितं पीतमूरुमांसं च भक्षितम् । गङ्गायां वाहितो भर्ता, साधु साधु पतिव्रते ! ॥१७॥ ज्ञात्वा नृपं लजिता सा, स्वचरित्रेण पापिनी । निर्वासिता नरेन्द्रेण, निजोपार्जितभागभूत् ।१८। १. 'दृष्ट्वा' छ ल ख प । आ.नि. नमस्कारनियुक्तिः। वस्तुद्वारे स्पर्शने सुकुमालिका कथा । गाथा-९१८ ५४१ ५४१ ******** 15
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy