SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ आवश्यक 'सूक्ष्मं' वाऽल्पप्रायश्चित्तशोध्यम् । 'बादरं' वा भूयः प्रायश्चित्तशोध्यम् । 'यूयं जानीथ' सकलमनोभाववेदकत्वात् । 'अहं न जानामि' निर्युक्तिः मूढत्वात् । 'तस्या'ऽप्रीतिकादिविषयस्य मिथ्या मे दुःकृ[ष्कृ]तम्, सर्वमपि मे मम दुःकृ[ष्कृ]तं 'मिथ्येति, मोक्षसाधनविपर्ययभूतं श्रीतिलकाचार्य- * क्षमणीयमित्यर्थः । जघन्यतस्त्रयः साधवः क्षाम्यन्ते । उत्कर्षतः सर्वेऽपि । ततः पाक्षिकालोचनं ततो वन्दनकं दापयित्वा गुरुरूर्ध्वभूय प्रत्येकं लघुवृत्तिः क्षामणं कारयन्ति । ततः पुनर्वन्दनकदानानन्तरं गुरुर्गुरुसन्दिष्टो वा पाक्षिकसूत्रं कर्षति । शेषा यथाशक्ति कायोत्सर्गस्था धर्मध्यानोपगताः शृण्वन्ति । तत उपविश्य प्रतिक्रमणसूत्रं भणित्वा मूलोत्तरगुणशुद्धये उच्छ्वासशतत्रयमानं कायोत्सर्गं कुर्वन्ति, द्वादशवाराश्चतुर्विंशतिस्तवं चिन्तयन्तीत्यर्थः । पारिते च चतुर्विंशतिस्तवमुत्कीर्त्य मुखवस्त्रिकां प्रतिलिख्य वन्दनकं दत्वा समाप्तिक्षामणं कृत्वा अहमवि भे खामीति गुरुणोक्ते पाक्षिकक्षामणकचतुष्टयं कुर्वन्ति । तत्राद्यं - इच्छामि खमासमणो पियं च मे जं भे इत्यादि । 'भे' भवतां 'हृष्टानां' नीरुजाम्, 'अल्पातङ्कानां' सद्योघातिरोगवर्जितानाम् । 'अभग्गजोगाणं' अभग्नसंयमयोगानाम्। 'पौषधो' धर्मपौषधः । तुब्भेहिं समं युष्माभिः सह सर्वमेतत् सम्पन्नमिति गुरोर्वचः । अथ द्वितीयं - इच्छामि खमासमणो पुव्विं चेइयाइं वंदित्ता इत्यादि । विहारात्पूर्वं युष्मत्पादमूले स्थितेन चैत्यानि जिनप्रतिमा वन्दित्वा पश्चाद्विहरमाणेन विहारं कुर्वता ये केचिद्वहुदैवसिकाः साधवो 'दृष्टाः' 'सामाणाः' साम कोमलं मन्दं दिनेन • वन्दनकदानानन्तरं भणन्ति 'देवसियं पडिकंतं पक्खियं पडिक्कमावेह' ततो गुरुर्गुरुसन्दिष्टो वा... हारिभद्रीयवृत्तौ । * श्रमणो वृद्धावासः, वैश्रमणो (वसन्)नवविकल्पविहारः, वृद्धावास: परिक्षीणजङ्घाबलो नव विभागान् क्षेत्रं कृत्वा विहरति । नवकल्पविहारः पुनः ऋतुबद्धष्ट मासान् मासकल्पेन विहरति, एतेऽष्टविकल्पाः वर्षावासमेकस्मिन् स्थाने । इति हारिभद्रीयवृत्ती । ******** १०३१ आ.नि. कायोत्सर्गा ध्ययनम् पाक्षिकप्रतिक्रमणविधिः । गाथा - १५२७ १०३१ [५२७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy