SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः 'निरुवसग्गवत्तियाए' निरुवसर्गो जन्मजराद्युपद्रवरहितो मोक्षस्तत्प्रत्ययम् । अयं च कायोत्सर्गः श्रद्धादिरहितैः क्रियमाणो नेष्टसाधक इत्याह । 'सद्धाए' इत्यादि श्रद्धया स्वाभिलाषेण, न बलाभियोगादिना । 'मेधया' विवेकतया न जडत्वेन, मर्यादया वा नाऽसमञ्जसत्वेन । 'धृत्या' मनः समाधिना न रागाद्याकुलत्वेन । 'धारणया' अर्हद्गुणाऽविस्मरणरूपया, न तच्छून्यतया । 'अनुप्रेक्षया' अर्हद्गुणानामेव पुनः पुनश्चिन्तनेन न तद्वैकल्येन । 'वर्धमानये 'ति श्रद्धादिभिः प्रत्येकं सम्बध्यते । 'ठामि काउस्सग्गं' । ननु प्राक्करोमि कायोत्सर्गमित्युक्तं किं पुनरिदम् ? सत्यं वर्तमानसामीप्येन वर्तमानवद्वेति (पाणि ३-३-१३१) । करोमि करिष्यामीति क्रियाभिमुख्यमेव प्रागुक्तम् इदानींत्वासन्नतरत्वात्तस्य करणमेव । किं सर्वथा कायोत्सर्ग इत्याह १०२५ ध्ययनम् पुक्खरवर दीवसूत्रव्याख्या । * गाथा - १५२३ * 躲 'अन्नत्थ उससिएणमि'त्यादि एवं सूत्रं पठित्वा पञ्चविंशत्युच्छ्वासमानं कायोत्सर्गं कुर्वन्ति । एष तृतीयः । तं पारयित्वा ज्ञानाराधनार्थं ज्ञानप्ररूपकतीर्थकृन्नमस्कारपूर्वकं सूत्रमिदं पठन्ति । 'पुक्खरवरदीवड्डे' इत्यादि । पुष्करवरद्वीपस्तृतीयद्वीपस्तस्यार्थे मानुषोत्तरपर्वतादर्वाग्भागवर्तिनि तथा धातकीषण्डे द्वितीयद्वीपे जम्बूद्वीपे च प्रथमे यानि भरतैरवतमहाविदेहानि । पञ्चदश क्षेत्राणि तेषु, सूत्रे प्राकृतत्वादेकवचनम् धर्मस्य श्रुतधर्मस्यादिकरान्नमस्यामि स्तुवे । 'तमतिमिरे 'त्यादि तमोऽज्ञानं तदेव तिमिरं तस्य पटलं 'तद्विध्वंसयति' विनाशयतीति तमस्तिमिरपटलविध्वंसनस्तस्य । ‘सुरगणनरेन्द्रमहितस्य' सीमायां मर्यादायां धारयतीति सीमाधरः श्रुतधर्मस्य प्राकृतत्वात्कर्मणि, द्वितीयास्था अतस्तं 'वन्दे' स्तवीमि । 'प्रस्फोटितं' खण्डितं प्रस्तावाद्विवेकिनां 'मोहजालं' मिथ्यात्वादिरूपं येन तस्य । इत्थं श्रुतमभिवन्द्य तत्रैवाऽप्रमादोपदेशमाह - १. करोति ल ख प, प प, आ.नि. कायोत्सर्गा ********* १०२५ [५२१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy