SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ M आ.नि. कायोत्सर्गाध्ययनम् अरिहंतचेइयाणंसूत्रव्याख्या। आवश्यक- एस चरित्तुस्सग्गो, दंसणसुद्धीइ तइअओ होइ । सुअनाणस्स चउत्थो, सिद्धाण थुई य किइकम्मं ।।१५२३।। नियुक्तिः । तथा - 'दुन्निय हुंति चरित्ते' द्वौ 'लोगस्सत्ति' स्तवो चिन्त्यो 'दंसणनाणे य इक्कइक्को य सुयखित्तदेवयाए थुइ अंते पंचमंगलयं' । श्रीतिलकाचार्य- एष चारित्रातिचारशुद्धिकायोत्सर्ग: पञ्चाशदुच्छ्वासमानः । अतिचारचिन्तनप्रथमकायोत्सर्गापेक्षयाऽयं द्वितीयः । अथ दर्शनशुद्धिनिमित्तं - लघुवृत्तिः चतुर्विंशतिस्तवमुत्कीर्त्य कायोत्सर्गार्थ 'सव्वलोए अरिहंतचेइयाणमिति सूत्रं पठन्ति । अस्यार्थः सव्वलोएत्ति 'अधोलोके चमरादिभवनेषु 'तिर्यग्लोके' द्वीपाचलज्योतिर्विमानेषु 'ऊर्ध्वलोके' सौधर्मादिषु 'अरिहंतचेइयाण' अर्हतां 'चैत्यानि' प्रतिमाः अर्हचैत्यानि तेषां * १०२४ वन्दनादिप्रत्ययं कायोत्सर्ग करोमि इति सम्बन्धः । कायस्योत्सर्गः स्थानमौनध्यानक्रियात्रयं विना क्रियान्तरनिरासेन त्यागस्तं करोमि । 'वंदणवत्तियाए' वन्दनप्रत्ययं वन्दनमभिवादनं 'तत्प्रत्ययं' तन्निमित्तं यादृग्वन्दनात्पुण्यं भवति, तादृक्कायोत्सर्गादेव मे स्यादित्यर्थः ।। * वत्तियाए इत्यार्षत्वात् । 'पूअणवत्तियाए' पूजनप्रत्ययं पूजनं गन्धमाल्यादिभिरर्चनम्, तन्निमित्तम् । 'सक्कारबत्तियाए' सत्कारप्रत्ययं सत्कारो * वस्त्राभरणादिपूजनम्, तन्निमित्तम् । स्वयं कृतपूजासत्कारेणापि भावस्तवत्वेन बहुफलत्वात् भणनीयमेवैतत् । 'सम्माणवत्तियाए' सन्मानप्रत्ययं सन्मानं स्तवादिभिर्गुणकीर्तनम्, तन्निमित्तम् । अथ वन्दनाद्याशंसाः - किमर्थमित्याह-'बोहिलाभवत्तियाए' बोधिलाभः प्रेत्य । जिनधर्मावाप्तिस्तत्प्रत्ययम् । तदाशंसापि किमर्थमित्याह - ######### १०२४ [५२०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy