SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ KKKRER आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः द्रष्टुं स्वान् सोऽन्यदाऽचालीत्, प्रेम्णा गन्तुं न सा ददौ । हसितं तेन साऽप्राक्षीनिर्बन्धेऽकथयत्कथाम् ।५६ । निर्वित्रा[ण्णा] साऽथ साध्वीनां, धर्मं श्रुत्वाऽग्रहीद्वतम् । इतरोऽगात्तु नरकं, चक्षुर्लोल्यकृतादऽघात् ।५७। अथ घ्राणेन्द्रियोदाहरणं - इह राजकुमारोऽभूत्, कोऽपि गन्धप्रियः पुरा । सदैव नौकटकेन, नद्यन्तः खेलति स्म सः ।। मञ्जूषान्तर्विषं क्षिावा, विमात्राऽस्य प्रवाहिता । खेलता तेन दृष्टा सा, गृहीत्वोद्धाट्य वीक्षितम् ।२। समुद्रस्थं विषं घ्रात्वा, मृतोऽसौ घ्राणदोषतः । एवं घ्राणेन्द्रियं दुःखहेतुर्भवति देहिनाम् ।३। अथ जिह्वेन्द्रियोदाहरणं - भूप्रतिष्ठपुरे राजा, सोदासो मांसलोलुपः । अमारिघोषिताऽन्येद्युर्मासं पर्युषितं पुनः ।। मार्जारो जगृहेऽन्यत्तु, न सूनास्वप्यभूत्तदा । राज्ञो भीतेन सूदेन, शिशुक्पाद्य संस्कृतः ।२। भुञ्जान: पृष्टवान् राजा, मांसं स्वादिष्टमद्य किम् ? । तेनाऽऽख्यातेऽभयं दत्त्वा, हत्वैकैकं पचेः सदा ।३। तच ज्ञातं जनैः सर्वस्ततो राक्षस इत्यसौ । पाययित्वा महामद्यमटव्यां छर्दितो नपः ।४। •अर्ध - पापम्, तस्मात् । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे घ्राणेन्द्रिये राजकुमार कथा । जिह्वेन्द्रिये सोदास कथा। गाथा-९१८ ५३९ 平樂業準準準準準準準準準準準準準準準準準举 ५३९ [३५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy