SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आवश्यक श्रीतिलकाचार्यलघुवृत्तिः ५३८ ********* *********** ऊचे मे घट्यतां देवी, जगुस्ते घटयिष्यते । तैस्तस्याऽथ समं राज्ञ्या, मेलोपायो व्यचिन्त्यसौ ।४५ ॥ सापवादा नृपत्यक्ता, मिलत्येषाऽस्य नाऽन्यथा । विकुर्विताऽथ तैर्मारिर्मर्त्तुं लग्नो घनो जनः ।४६। अथाऽऽरक्षा नृपेणोक्ता, मारिर्विज्ञाय कथ्यताम् । वासवेश्मनि तैर्देव्या, विद्ययाऽथ विकुर्विताः ॥४७॥ मनुष्यहस्तपादांशा, देव्यास्यं च सलोहितम् । तैरुक्तं देव ! गेहे स्वेऽन्वेष्या मारिः परत्र न ।४८ । राज्ञाऽन्विष्टा च दृष्टा चाऽऽदिष्टास्तेऽथ यथा रहः । स्वगृहे मण्डलं कृत्वा, नीत्वा तत्र निगृह्यताम् ।४९ । नीता तैरथ सा तत्र, रात्रावध्यास्य मण्डलम् । हन्तुं प्रचक्रमे यावदिभ्यसूस्तावदाययी ॥५०॥ स ऊंचे मार्यतेऽसौ किं, मारिरेषेति मार्यते । सोऽवदत् घटते नैतज्जातोऽस्याः कोऽपि दुर्जनः । ५१ । हत मां मुञ्चतैतां तु, नेत्रकैरवकौमुदीम् । नैषुस्ते पुनरूचे स, गृह्णीध्वं कोट्यलङ्कृतिम् ॥५२॥ निगृह्णीध्वं च मामेतां, मुञ्चध्वं वः कृतोऽञ्जलिः । तस्या अप्यभवत्प्रेम, तत्राऽकारणवत्सले १५३॥ ऊचुस्ते तेऽतिनिर्बन्धान्मुक्ताऽसौ त्वं च किन्त्वतः । गत्वा देशान्तरे तिष्ठेस्तामथाऽऽदाय सोऽगमत् ॥५४॥ प्राणप्रदोऽयमित्यासीत्तत्राऽतिप्रेमभागसी । रतिसागरनिर्मग्ग्रा, तेन सार्धमथास्ति सा ॥५५॥ • स्ते ते प्रथमः 'ते' तद् शब्दस्य प्रथमा बहुवचनम्, द्वितीयः 'ते' तव इत्यर्थः । - - ************* ******** आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे चक्षुरिन्द्रिये इभ्यपुत्रकथा । गाथा - ९९८ ५३८ [३४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy