SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः तदा धनस्य वैराग्यमजायत तपस्विषु । चट्टेनोक्तं मयाऽभाणि, सिद्धिर्नाऽब्रह्मचारिभिः ।३३। ऊचे धनोऽधुना कः स्यादुपायश्चट्ट ऊचिवान् । शोध्या ब्रह्मभृतः क्वापि, शृणु तेषां च लक्षणम् ।३४ । भवन्त्येवंविधाः श्रेष्ठिन् !, मुनयो ब्रह्मचारिणः । ये वसत्यादिका गुप्ती:, पालयन्ति सदा नव ।३५ । अथ दर्शनिनः सर्वान्, श्रेष्ठिप्रष्ठः स पृष्टवान् । ब्रह्मगुप्तीन कोऽप्याख्यदाऽऽख्यन् श्वेताम्बराः पुनः ३६। वसति: कथाऽऽसनाऽक्षे, कुड्यन्तरपुरारते । प्रणीताऽत्यशने 'भूषा, नवैता ब्रह्मगुप्तयः ।३७। श्रेष्ठी तानाह मे कार्य, गृहेऽस्ति ब्रह्मचारिभिः । ऊचुस्ते गृहिणां कार्य, विधातुं कल्पते न न: ।३८ । लब्धा ब्रह्मभृतश्चट्ट !, कार्य नेच्छन्ति ते पुनः । [ग्र० ६०००] । सोऽभ्यधादीदृशा एव, भवन्ति मुनयो धन । ३९ । विमुक्तलोकव्यापारा, एषां नामापि सिद्धिकृत् । मण्डलं पुनरालिख्य, दिक्पाला विनिवेशिताः ।४०। न्यस्तानि साधुनामानि, चक्रे पूजा यथाविधि । न शिवाकूजितं जातं, जाता श्रेष्ठिसुता पटुः ।४१। धनोऽथ साधुमाहात्म्यज्ञानात्सुश्रावकोऽभवत् । चट्टो धर्मोपकारीति, दत्ते वे अपि तस्य ते ।४२। एवं स्थैर्यादुपायेन, प्राप रूपवतीं प्रियाम् । इति श्रुत्वेभ्यसूर्देशे, तदुपायाय सोऽप्यगात् ।४३। विद्यासिद्धा दण्डरक्षाः, पाणास्तिष्ठन्ति तत्र च । तस्य ते सेवया तुष्टाः, स्माहुरस्मत्किमीहसे ।४४। आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे चक्षुरिन्द्रिये इभ्यपुत्रकथा । गाथा-९१८ ५३७ [३३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy