SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ५३६ ****** उपाध्यायोऽवदद्भद्र !, पाठयिष्याम्यहं परम् । मगृहे भोजनं नास्ति, दुर्भिक्षं चाऽस्ति सम्प्रति ॥ २१ ॥ धनश्च दत्ते भौतानां ततः सोऽगात्तदन्तिके । देहि विद्यार्थिनो मेऽन्नं, सोऽवदद्दास्यते पठ १२२ । नाऽऽदिष्टा सुताऽमुष्मै ददीथा नित्यभोजनम् । स दध्यौ चिन्तितं जातं, शक्तुमध्येऽलुठत् घृतम् | २३ | फलाद्युपाचरत्तस्या, उपचारं न साऽग्रहीत् । अथाऽवसरमासाद्य, सोऽत्वरस्तां वशेऽनयत् ॥ २४ ॥ अथ सा तगुर्ण रक्ता तमुवाच पलाय्यते । तेनोक्तं नोचितमिदं त्वमुन्मत्ताऽधुना भव ॥ २५ ॥ सातथाऽभूत्ततः पित्राऽऽहूता मान्त्रिकतान्त्रिकाः । सर्वानतर्जयत्तीव्रं तां तेऽसाध्येत्यथात्यजन् ॥ २६ ॥ अers घृतः पितामह्यञ्चट्टस्तं स्माह मा मुहः । क्रमागताऽस्ति मे विद्या, सर्व सेत्स्यत्यदस्तया । २७ । दुष्करस्तूपचारोऽस्याः, श्रेष्ठ्यूचे सुकरो मम । आख्यचट्टोऽथ कार्येऽत्र, चत्वारो ब्रह्मचारिणः ॥ २८ ॥ आनेयास्ते कुशुद्धाश्चेत्तदा कार्यं न सेत्स्यति । तेषां भवत्यनर्थश्च स भौतर्षीनथाऽऽनयत् । २९ । आनायितास्तथा योधाश्चत्वारः शब्दवेधिनः । दिक्पालाः स्थापितास्ते च लिखित्वा तत्र मण्डलम् ॥३०॥ उक्ताश्च स मनाक् वेध्यः, शिवाशब्दो भवेद्यतः । भौताश्चौच्यन्त कुर्वीध्वं, 'हुंफुट्'कृते शिवारुतम् ॥३१ । त्वं रूपेण धृतेनैव तिष्ठेरूचे च कन्यका । कृते तथैव भौतास्ते, विद्धा नाऽभूत् पटुः सुता ।३२। ******* आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे चक्षुरिन्द्रिये इभ्यपुत्रकथा । गाथा - ९९८ ५३६ [३२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy