________________
आवश्यक-* नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
तदेव च तथा कृत्वाऽऽर्पयझेटीकरे पुटीम् । न बन्धुरा इमे गन्धा, इत्युदित्वाऽर्पयेरिमाम् ।११। अर्पितायां गन्धपुट्यां, चेट्याऽऽख्याते च वाचिके । पुटीमाच्छोट्य लेखस्थं, लेखार्थमवधार्य सः ।१२। भग्नाशः खेदमेदस्वी, निर्ययो संहतापणः । तदाप्तिचिन्तोपायार्थी, भ्रमन् राज्यान्तरं गतः ।१३। एतं श्लोकं तत्राऽश्रौषीत् :- न शक्यं त्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान् । भार्यां च रूपसंपन्त्रां, शत्रूणां च पराजयम् ।१४। अत्र च दृष्टान्तः - वसन्तपुरमित्यास्ते, पुरं सुरपुरप्रति । श्रावको जिनदत्तोऽभूत्तत्र सार्थपतेः सुतः ।१५। पुर्यामितश्च चम्पायामीश्वरः सार्थपो धनः । अस्त्याश्चर्यद्वयं तस्य, यन्त्र भूतं न भावि च ।१६। चतुरब्धिसारभूता विमला मुक्तावली गुणैः कलिता । अकलितमूल्यविशेषा सकलकलाकुशलमतिभिरपि ।१७। हारप्रभा च कन्यास्ति, तद्रूपादिगुणस्तुतौ । स्याद्वागीशोऽप्यवागीशः, स्वयं वागप्यवागिव ।१८। जिनदत्तस्तदाकाऽनुरक्तस्तामयाचयत् । श्रावकोऽयमिति ददौ, मिथ्यादृष्टिर्न तस्य सः ।१९। चट्टवेष: स्वयं चम्पामेकाकी स ययौ ततः । एकस्तत्राऽस्त्युपाध्यायस्तं विद्यार्थीत्युपस्थितः ।२०। १. 'सुरपुरं प्रतिः' ख 'सुरपुरः प्रतिः' लए 'सुरपुरं प्रति' ल, सुरपुरप्रतिः प. प । सुरपुरप्रत छ । प्रति = प्रतिकृतिः इत्यर्थः ।
आ.नि. नमस्कारनियुक्तिः ।
वस्तुद्वारे चक्षुरिन्द्रिये इभ्यपुत्रकथा । गाथा-९१८
५३५
५३५
「華華華藥業華藥業業業望