SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०२१ ************* वायनिसग्गुड्डोए, जयणासहस्स नेव य निरोहो । उड्डोए व हत्थो, भमलीए मुच्छासु अ निवेसे ।। १५१२ ।। वातनिसर्गे उद्गारिते च शब्दयतना कार्या । महान् शब्दो रक्षणीयः । न च निरोद्धव्योऽसमाधिः स्यात्, उद्गारिते च हस्तोऽन्तरे दीयते भ्रमौ मूर्च्छायां च निविशेत् मा भूत् पतनेन संयमात्मविराधना । । १५१२ ।। सूक्ष्मैरङ्गसञ्चारैः खेलसञ्चारैश्चेत्यस्य व्याख्यामाह - वीरियसजोगाए, संचारा सुहुमबायरा देहे । बाहिं रोमंचाई, अंतो खेलानिलाईया । । १५१३ ।। 'वीर्य' बलं तेन 'सयोगतया सव्यापारतया देहे सति सूक्ष्माः बादराश्च सञ्चारा भवन्ति । अन्तः श्लेष्मानिलादयो बही रोमोत्कम्पादयस्तैः । । १५१३ ।। 'सूक्ष्मदृष्टिसञ्चारैरित्यस्य व्याख्यामाह - आलोयचलं चक्खु, मणंव तं दुक्करं थिरं काउं । रूवेहिं तयं खिप्पइ, सभावओ वा सयं चलइ । । १५१४ ।। 'आलोकचलं' दर्शनलालसं चक्षुर्मनोवत्तद्दुः क [ष्क] रं स्थिरं कर्तुम् । रूपैस्तदाऽऽक्षिप्यते । स्वभावतो वा स्वयं चलति । । १५१४ । । ततश्चन कुणइ निमेसजत्तं, तत्थुवओगेण मा न झाइज्जा । एगनिसं तु पवन्नो, झाइ सहू अणिमिसच्छवि । । १५१५ ।। कायोत्सर्गे निमेषयत्रं न करोति । मा तत्रोपयोगेनाऽभीष्टं न ध्यायेत् । एकरात्रिकीं तु प्रतिमां प्रपन्नः सहोऽनिमेषाक्षोपि ध्यायति । । १५१५ ।। 'एवमादिभिराकारैरि' त्यस्य व्याख्यामाह - १. 'सूक्ष्मैः खेल'...ल, । ********* आ.नि. कायोत्सर्गाध्ययनम् अन्नत्थसूत्रव्याख्या । गाथा - १५१२ १५१५ १०२१ [५१७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy