SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ आवश्यक- ऊर्ध्वादिस्थानेन 'मौनेन' वाग्निरोधेन 'ध्यानेन' सुप्रणिधानेन 'अप्पाणं' आर्षत्वादात्मीयं कायं व्युत्सृजामि' कुव्यापारनिषेधेन त्यजामि । अत्राह - नियुक्तिः परः - कायोत्सर्गो न कार्यः, प्रयोजन-रहितत्वात् काकदन्तपरीक्षावत् । अत्र भाष्यकृदुत्तरमाह - श्रीतिलकाचार्य-* भा. काउस्सग्गंमि ठिओ, निरेयकाओ निरुद्धवइपसरो । जाणइ सुहमेगमणो, मुणि देवसियाइअइयारं ।।२३२।। लघुवृत्तिः भा. परिजाणिऊण य जउ, सम्मं गुरुजणपगासणेणं तु । सोहेउ अप्पगं सो, जम्हा य जिणेहिं सो भणिओ ।।२३३ ।। कायोत्सर्ग स्थितः निरेजकायो नि:कष्किम्पदेहः निरुद्धवाक्प्रसरः जानाति सुखं एकमनाः एकाग्रचित्तः मुनिर्देवसिकाद्यतिचारम्, 'आदि' २०२६ शब्दादात्रिकम् । परिज्ञाय चयतः कारणात्सम्यग् गुरुप्रकाशनेन शोधयत्यात्मानं सोऽतिचारमलिनं क्षालयतीत्यर्थः । ततः सप्रयोजनत्वात्का- योत्सर्गः कार्यः । यस्माञ्च जिनैः स कायोत्सर्गो भणितस्ततोपि कार्यः । ततश्च - ____ काउस्सग्गं मुक्खपह-देसियं जाणिऊण तो धीरा । दिवसाइयारजाणण-ट्ठयाय ठायंति उस्सग्गं ।।१४९७।। स्पष्टा । नवरं मोक्षपथदेशकत्वात्तीर्थकरोप्युपचारान्मोक्षपथस्तेन देशितम् । अतिचारज्ञानार्थोऽयं कायोत्सर्गः ।।१४९७।। ततः के * तेऽतिचारा इत्याह - १. 'साऽतिचारमलिन' प । आ.नि. कायोत्सर्गा ध्ययनम् कायोत्सर्गप्रयोजनम्। गाथा-१४९७ भा.गाथा२३२-२३३ १०१६ [५१२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy