SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः इत्यादि । जाव तस्स मिच्छामि दुक्कडम् । अस्यार्थः प्रतिक्रमणसूत्रादावुक्तः । इदमन्यत्सूत्रं तस्स उत्तरीकरणेणमित्यादि अप्पाणं वोसिरामिति यावत् । अस्यार्थः । तस्यालोचितप्रतिक्रान्तस्यातिचारस्योत्तरकरणादिना हेतुना ठामि काउस्सग्गमितियोगः । अनुत्तरस्योत्तरस्य करणम् यस्यातिचारस्य पूर्वमालोचनादि कृतम्, तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणम् । तच्च प्रायश्चित्तकरणेन स्यादित्याह पायच्छित्तकरणेणं प्रायश्चित्तं जीवं मनो वा शोधयतीति प्रायश्चित्तम्, तस्य करणेन हेतुना । तच्च विशुद्धया स्यादित्याह । विसोहीकरणेणं * * विशोधनं विशुद्धिरतिचारमलिनस्यात्मनो निर्मलीकरणम्, तस्याः करणेन हेतुना । तदपि विशल्यत्वे सति स्यादित्याह, विसल्लीकरणेणं * विशल्यो विगतमायादिशल्यस्तस्याविशल्यस्य विशल्यस्य करणं विशल्यीकरणम्, तेन हेतुना । किं ? पावाणं कम्माणं निग्घायणट्ठाए * ठामि काउस्सग्गं । पापानां भवहेतूनां कर्मणां निर्घातनार्थं उच्छेदार्थम् । 'ठामि' अनेकार्थत्वाद्धातूनां करोमि, कायोत्सर्ग कायव्यापारत्यागमित्यर्थः । किं सर्वथा ? नेत्याह अन्नत्थ उससिएणमित्यादि पञ्चम्यर्थे तृतीया । अन्यत्रोच्छ्वसितात् श्वासग्रहणात्, निःश्वसितात् श्वासमोक्षणात् कासितात्, क्षुतात्, जृम्भितात्, उद्गारितात् एतानि प्रतीतानि । वातनिसर्गोऽपानेन वातनिर्गमस्तस्मात्, 'भमलीए' अकस्माद्देहभ्रमेः 'पित्तमुच्छाए' पित्तसंक्षोभादीषन्मोहो मूर्च्छा तस्याः, सूक्ष्मेभ्योऽङ्गसञ्चारेभ्यः, सूक्ष्मेभ्यः खेलसञ्चारेभ्यः, सूक्ष्मेभ्यो दृष्टिसञ्चारेभ्यः । एवमादिराकारैरपवादैः । अभग्नोऽविराधितो भवेन्मम कायोत्सर्गः । कियन्तं कालं यावदित्याह जावेत्यादि यावदर्हतां भगवतां नमस्कारेण नमो अरिहंताणमित्यनेन 'न पारयामि' न पारं गच्छामि । तावत्किमित्याह तावेत्यादि तावन्तं कालं 'कायं देहं स्थानेन १०१५ ******* आ.नि. कायोत्सर्गाध्ययनम् तस्सउत्तरी सूत्रव्याख्या अन्नत्थ सूत्रव्याख्या । गाथा - १४९६ १०१५ [५११]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy