________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९९४
कालपरिमाणमभिभवकायोत्सर्गादीनां उत्सृतादिभेदपरिमाणं च । (६) अशठः । (७) शठश्च कायोत्सर्गकर्ता । (८) कायोत्सर्गकरणविधिः । (९) कायोत्सर्गस्य दोषाः । (१०) कस्य कायोत्सर्गः । (११) फलं कायोत्सर्गस्येत्येतावन्ति द्वाराणि वाच्यानि ।। १४२८ ।। आद्यद्वारं भाष्यकृदाह भा. काए उस्सग्गंमि य, निक्खेवे दुन्नि हुंति य वियप्पा । एएसिं दुन्हंपी, पत्तेय परूवणं वुच्छं ।।२२८ ।। काये उत्सर्गे च निक्षेपे निक्षेपविषये द्वावेव विकल्पौ भवतः । एतयोर्द्वयोरपि प्रत्येकं प्ररूपणां वक्ष्ये । तत्र -
कायस्स उ निक्खेवो, बारसउ छक्कड य उस्सग्गे । एएसिं दुन्हंपी, पत्तेय परूवणं वुच्छं । । १४२९ ।। स्पष्ट ।। १४२९ ।। कार्यानिक्षेपमाह -
नाम ठेवण सरीरं, गई निकायत्थिकाय दविए य । माउग संगह पज्जव, भारे तह भावकाए य । । १४३० ।।
नाम । १ । स्थापना । २ । शरीर । ३ । गति ॥४। निकाया । ५ । ऽस्तिकाय । ६ । द्रव्य ॥७। मातृका ।८ । सङ्ग्रह ।९। पर्यव । १० । भार * गाथा - १४२९। ११ । भावेभ्यः । १२ । कायो द्वादशकः । ।१४३० ।। नामकायमाह -
१४३१
भा. गाथा - २२८
काओ कस्स वि नामं, कीरइ देहोवि वुचई काओ । कायमणिओ वि वुञ्चइ, बद्धमवि निकायमाहंसु ।।१४३१ ।। पूर्वार्ध स्पष्टम् । काचमणिरपि प्राकृते 'काय' उच्यते । बद्धमपि लेखादिकं 'कच् बन्धने' निकाचितं प्राकृते निकायमित्याहुः । । १४३१ ।। * स्थापनाकायमाह -
१. भावाख्याः ल ।
*********
*************
*************
आ.नि. कायोत्सर्गाध्ययनम् कायोत्सर्गनिक्षेपाः (१) नामादिकाय
निक्षेपाः ।
९९४
[ ४९० ]