________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९८८
इत्थं ठिया जीवा सिज्झति ।
I
अत्र नैर्ग्रन्थे प्रावचने स्थिताः सम्यक्चारित्रं पालयन्तो जीवाः 'सिध्यन्त्य' णिमादिसिद्धिभाजो भवन्ति । 'बुध्यन्ते' केवलबोधं लभन्ते 'मुच्यन्ते' भवोपग्राहीभिरपि कर्मभिः । 'परिनिर्वान्ति' सामस्त्येन निर्वृता भवन्ति । 'सर्वदुःखानां' शारीरमानसानां 'अन्तं' कुर्वन्ति । तं धर्मं निर्ग्रन्थप्रावचनरूपं श्रद्दधामि । 'प्रत्येमि' इदमेवेष्टार्थहेत्विति श्रद्धानपूर्वकं निश्चिनोमि । 'रोचयामि' अस्मिन्नेवान्यपरिहारेण मनसो रुचिमुत्पादयामि । 'स्पृशामि' आसेवामि एतदुक्तं सर्वमाचरामि । 'पालयामि' रक्षामि नैतदुक्तमुल्लङ्घयामि । 'अनुपालयामि' पूर्वपुरुषक्रमेण न स्वमतिकल्पनया । तं धर्मं श्रद्दधानः प्रतियन् रोचयन् स्पृशन् पालयन् अनुपालयन् तस्य धर्मस्य प्रागुक्तस्याऽभ्युत्थितोऽस्म्याराधनायां, आराधनाविषये । विरतोऽस्मि विराधनायाः । विराधनाराधने एवाह 'असंजमं परियाणामी 'त्यादि । एवं आलोईय निंदिय, गरहिय दुगंच्छीय तिविहेण पडिक्कन्तो वन्दामि जिणे चउव्वीसं' । इत्यन्तं पाठसिद्धम् । नवरं 'परिजानामि' प्रत्याख्यामि । कार्ये कारणोपचारात्, अबोधि अबोधिकारणम् । बोधिं बोधिकारणम् । 'जं पडिक्कमामि, जं च न पडिक्कमामि' । इह वर्तमानसामीप्ये वर्तमानवद्वेति, अतीते वर्त्तमाना । यद्वादरं विदितं प्रतिक्रान्तं यच्च सूक्ष्मं अविदितं न प्रतिक्रान्तं तस्य सर्वस्य दैवसिकस्यातिचारस्य प्रतिक्रमामि ।
आ.नि. प्रतिक्रमणाध्ययनम् * सूत्रव्याख्या ।
९८८
[४८४]