SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ आवश्यक आ.नि. इह सूत्रे एकादिभिस्त्रयस्त्रिंशत्पर्यन्तैः स्थानैरतिचारप्रतिक्रमणमुक्तम् । परमितोधिका अपि सम्भवन्ति । चतुस्त्रिंशदर्हतामतिशयाः, निर्युक्तिः पञ्चत्रिंशदर्हतां वाग्गुणाः । षत्रिंशदुत्तराध्ययनानि, सूरिगुणा वा, यावत् शततारं वा शतभिषग्नक्षत्रम् । ततोपि वाऽभ्यधिकानि प्रतिक्रमणाश्रीतिलकाचार्य- * समवायाङ्गोक्तानि । तथा एकादीनि दशान्तानि वानेकप्रकाराणि स्थानाङ्गानि सर्वाणि चैतानि प्रतिदिनमुभयकालं वा भणितुं न शक्यन्ते । ध्ययनम् लघुवृत्तिः ततो नोक्तानि । केवलं केवलिप्रज्ञप्तस्य धर्मस्याशातनयेति पदेन सर्वाणि सङ्गृहीतानीति मन्यते । तेषामपि केवलिप्रज्ञप्तत्वात् । सूत्रव्याख्या । ************* ९८७ एवं कृतातिचारशुद्धिः अर्हन्नमस्कारपूर्वकं श्रुतं वर्णयति । नमश्चतुर्विंशतेस्तीर्थकरेभ्यः ऋषभादिमहावीरपर्यवसानेभ्यः । इदमेव * नैर्ग्रन्थप्रावचनम् । निर्गता ग्रन्थाद्वाह्याभ्यन्तरात् परिग्रहकषायरूपात् निर्ग्रन्थास्तेषामिदं नैर्ग्रन्थम् । प्रकर्षेण आ-सामस्त्येनोच्यन्ते जीवाजीवादयो यस्मिंस्तत्प्रावचनं सामायिकादि बिन्दुसारान्तं द्वादशाङ्गश्रुतं सद्भ्यो हितं सत्यम् । नास्त्युत्तरमस्येत्यनुत्तरं सर्वोत्तमम् केवलिना प्रोक्तं कैवलिकम् । प्रतिपूर्ण केनाऽप्यर्थेनान्यूनम् । नितरामीयन्ते परिच्छिद्यन्ते तत्त्वान्यस्मिन्निति न्यायो विमर्शस्तेन निर्वृत्तं नैयायिकम् । विचार्य कृतमित्यर्थः । संशुद्धं निःक [ष्क]लङ्कम् । शल्यानां मायादीनां कर्त्तनं शल्यकर्त्तनम् । सिद्धिरिष्टार्थप्राप्तिस्तस्या मार्गस्तम्, मुक्तिः कर्मभ्यो विमोक्षस्तस्य मार्गस्तम्, निर्गतं यानं गमनं यस्मात्स निर्याणो मोक्षस्तस्य मार्गस्तम्, निर्वाणमात्यन्तिकं सुखं तस्य मार्गस्तम् । प्राकृतत्वान्नपुंसकत्वम् । अवितथं तथ्यं अविसंवादित्वात् । अविसन्धि, अव्यवच्छिन्नं सर्वदा महाविदेहेषु भावात् सर्वदुःखप्रहीणो मोक्षः स मार्ग्यते अन्विष्यते येन तत्सर्वदुःखप्रहीणमार्गम् । ९८७ [ ४८३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy