________________
म
आवश्यक- मूढो व दिसिज्झयणे, भासंतो वावि गिह्नइ न सुज्झे । अन्नं च दिसज्झयणं, संकंतोऽणि?विसए वा ।।१३८१।। आ.नि. निर्यक्तिः - दिशं वा अध्ययनं वा प्रति मूढः । आदावुत्तराभिमुखेण स्थेये पूर्वाभिमुखस्तिष्ठेत् । प्राक् चतुर्विंशतिस्तवे चिन्त्ये द्रमपष्पिकं श्रामण्यपूर्वकं प्रतिक्रमणासोनिका वा चिन्तयेत् । स्फुटानि व्यञ्जनानि अभिलपन् बुडबुडारावं वा कुर्वन् गृह्णाति, न शुध्यति । दिश्यस्यां गतो वा न वा । अध्ययनमिदं चिन्ततं ध्ययनम्
* वा न वेति शङ्कते । अनिष्टविषयः श्रोत्रस्य व्यन्तराट्टहासः । रूपे बिभीषिका, गन्धो रसश्च कुथितमृतादेः । स्पर्शोऽग्निज्वालादेः । यद्वा इष्टे सूत्रव्याख्या लघुवृत्तिः रागोऽनिष्टे द्वेषः एवं कालव्याघातः ।।१३८१।। इत्याधुपघातवर्जितं कालं गृहीत्वा गुरुपार्श्वमागच्छतो विधिमाह -
अस्वाध्यायजो वचंतस्स विही, आगच्छंतंमि होइ सो चेव । जं इत्थं नाणत्तं, तमहं वुच्छं समासेण ।।१३८२।।
नियुक्तिः एषा भद्रबाहुकृता गाथा । अस्याः पूर्वार्द्ध सिद्धसेनो व्याचख्यौ ।
कालग्रहणनिस्सीहियाइ आसजा-करणे खडिय पडिय वाघाउ । अपमजिए य भीए, छीए छिन्नेव कालबहो । [प्र.]
विधिः। स्पष्टा । नवरं छिन्नत्ति गुरुपार्श्वमागच्छतः श्वानमार्जारादिना विचाले छिन्ने । तथा -
गाथा-१३८१गोणाइ कालभूमीइ, हुज संसप्पगा व उट्ठिजा । कविहसिय विजुयंमि य, गज्जिय उक्काइ कालवहो । [प्र.]
१३८२ स्पष्टा । नवरं संसर्पकाः कीटकोपदेहिकाद्याः । कालं गृह्णतः गृहीत्वा वा निवेदयतः, आकाशे विकृतं मुखं वानरसदृशं तेन हसितं * ९७५ कपिहसितम् । कालग्राही निर्व्याघातेन गुरुपार्श्वमागतः ।
[४७१] •व्यन्तरकृतं व्योम्नि कपितुल्यहास्यम् । इति दीपिकायाम् ।
९७५