________________
आवश्यक
निर्युक्ति:
श्रीतिलकाचार्यलघुवृत्तिः
९७२
आपुच्छण किइकम्मे, आवस्सिय खलिय पडिय वाघाए । इंदिय दिसा य तारा, वासमसज्झाइयं चेव ।।१३७१ । । ततो गुर्वनुज्ञातौ कृतिकर्म वन्दनकं दत्वा दण्डकं गृहीत्वा आवश्यकं कृत्वा 'आसजेति' भणन्तौ प्रमार्जयन्तौ निर्गच्छतः । अन्तरे यदि स्खलतः पततो वा वस्त्रादि वा विलगति, कृतिकर्मादि वा वितथं कुरुतः गुरुर्वा प्रतीच्छन् वितथं कुर्यात् तदा कालव्याघातः एष कालभूमेः प्रतिजागरणविधिः । तत इन्द्रियोपयुक्ते चतुर्दिगवलोके अदिग्मोहे ऋतुबद्धकाले तारकत्रयदर्शने अवर्षति अना[न]ध्यायरहिते कालं गृह्णीतः । विपर्यये कालवधः ।। १३७१ ।। किञ्च -
जइ पुण गच्छंताणं, छीइं जोई व्व तो नियत्तंति । निव्वाघाए दुन्नि उ, अच्छंति दिसं निरिक्खता । ।१३७२ ।। पूर्वार्धं स्पष्टम् । निर्व्याघाते द्वावपि कालभूमिगतौ सन्दंशकप्रमार्जनादिविधिना निषण्णौ ऊर्ध्वस्थौ वा एकैको द्वे द्वे दिशो निरीक्षमाणौ स्तः ।। १३७२ ।। किञ्च तत्र कालभूमिस्थी -
सज्झायमचिंतंता, कणगं दट्ठण पडिनियत्तंति । पत्ते य दंडधारी, मा बोलं गंडए उवमा । । १३७३ ।।
स्वाध्यायमकुर्वन्तौ ग्रीष्मे त्रीन्, शिशिरे पञ्च, वर्षासु सप्त कणकान् पततो दृष्ट्वा निवर्त्तेते । निर्व्याघातेन च प्राप्ते काले ग्रहणकाले दण्डधारी अन्तः प्रविश्य वक्ति जाता कालवेला मा कार्षुः कलकलम् ।।१३७२ ।। अत्र गण्डकोपमा -
१. 'अस्य' ख 'अस्याः' ल ल 'अस्या' प । • गण्डको घोषकस्तेनोपमा । दीपिकायाम् ।
***********
****************
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
अस्वाध्याय
निर्युक्तिः
कालग्रहण
विधिः ।
गाथा - १३७१
१३७३
९७२
[ ४६८ ]