SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९७१ दुविहो उ होइ कालो, वाघाइम इयरो अ होइ नायव्वो । वाघाउ घंघसालाइ, घट्टणं सड्डकहणं वा ।।१३६९।। पूर्वार्धं स्पष्टम् । महाकाया वसतिर्घङ्गसाला यस्यां कापर्टिकादयोऽप्यवतिष्ठन्ते । तत्र घट्टनपतनादिः कालव्याघातः श्राद्धकथने कालातिक्रमः ।।१३६९ ।। वाघाए तइओ सिं, दिज्जइ तस्सेव ते निवेएंति । । १३७० ।। (पूर्वार्धम् ) तत्र व्याघातिके द्वौ कालप्रतिजागरकौ निर्गच्छतः । तृतीयस्तयोरुपाध्यायादिर्दीयते । ततस्तौ आपृच्छनसंदेशनकालप्रवेदनानि तस्यैवाग्रे * कुरुतः । नात्र गण्डकदृष्टान्तः । अन्ये च साधव उपयुक्ताः सन्ति । शुद्धे काले तत्रैवोपाध्यायस्य प्रवेदयन्ति । ततो दण्डभृद्दिगवलोककस्तिष्ठति । कालग्राही उपाध्यायश्चान्तविंशतः । अथोपाध्यायसमीपे सर्वेऽपि युगपत्स्वाध्यायं प्रस्थापयन्ति । पश्चात्तेभ्य एको दिशोऽवलोकते । दण्डभृत्स्वाध्यायं प्रस्थापयति । ततः सर्वे स्वाध्यायं कुर्वन्ति । इहरा पुच्छंति दुवे, जोगं कालस्स घित्थामो । ।१३७० ।। इति पश्चार्धम्, अस्या अर्थः 'इतरथा' निर्व्याघाते । निर्व्याघाते द्वौ जनौ गुरुमापृच्छेते । कालस्य योगो व्यापारस्तं ग्रहीष्यावः ।। १३७० ।। ● इत ऊर्ध्वं 'निव्वाधाए दुन्नि उ पुच्छंती काल घित्थामो' इति अतिरिक्तः पाठः ल आर्दशे दृष्टः । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या अस्वाध्याय निर्युक्तिः कालग्रहण विधिः । गाथा- १३६९ १३७० ९७१ [४६७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy