________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
९६९
पंचविहमसज्झायस्स, जाणणट्ठाइ पेहए कालं । चरिमा चउभागवसे सियाइ भूमी तओ पेहे ।। १३६२ ।।
पञ्चविधास्वाध्यायज्ञानार्थं प्रेक्षते कालं कालवेलाम् । कालमगृहीत्वा स्वाध्यायकरणे चतुर्लघु । ततश्चरमपौरुष्यां चतुर्थभागावशेषायां तिस्रः कालभूमयः प्रतिलेख्याः । अथवा उच्चारप्रश्रवणकालभूमय इत्येवं तिस्रः ।। १३६२ । । ता एवाह -
अहियासियाय अंतो, आसने चेव मज्झि दूरे य। तिन्नेव अणहियासी, अंतो छ छ बाहिरओ ।। १३६३ ।। अधिसोढुरनधिसोदुश्चान्तर्वसतेस्त्रयस्त्रय उच्चारभूमयः, षट्, एवं बहिरपि षट् मिलिता द्वादश ।। १३६३ ।।
एमेव य पासवणे, बारस चउवीसयं तु पेहित्ता । कालस्स य तिनि भवे, अह सूरो अत्थमुवयाइ ।। १३६४ ।। स्पष्टा । तत आवश्यकं कुर्वन्ति । । १३६४ । । तद्विधिरियं -
अह पुण निव्वाघाओ, आवासं तो करंति सव्वेऽवि । सड्डाइकहणवाघा ययाइ पच्छा गुरू ठंति ।। १३६५ ।। सूरास्तानन्तरं यदि निर्व्याघातं ततो गुरुसहिताः सर्वेऽप्यावश्यकं कुर्वन्ति । अथ श्राद्धानां धर्मकथनेनाऽऽवश्यकव्याघातात्पश्चाद् गुरवो निषद्याधरश्च आवश्यके 'ठेति' प्रवर्तन्ते ।। १३६५ ।।
१. सस्तिस्त्रस्तिस्त्र पर्वसतेः तिस्रस्तिस्र ल । २. 'पठंति' ल 'ठवंति' ल ।
आ.नि.
* प्रतिक्रमणाध्ययनम्,
* सूत्रव्याख्या
अस्वाध्याय
निर्युक्तिः
कालग्रहण
विधिः ।
गाथा १३६२१३६५ ९६९ [ ४६५ ]