SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९६८ ********* ********* द्वादशाब्दान्यशुद्धिः । अथैतानि स्थानानि दवेन दग्धानि वृष्ट्या वा प्लावितानि, ग्रामनगरादिस्वस्वगृहस्थानं विशोध्यावासितं तत्र शुद्धिः शेषे आवासिता दृष्ट्वा चान्यत्राशोधिते स्थिताः साधवस्तत्र 'मग्गंमि' मार्गतो वसतेः परितः मार्गणा विलोकना । तत्र यद् दृष्टं तस्य विवेकः अदृष्टार्थे दिनत्रयं तदुग्घाटकायोत्सर्गं कृत्वा स्वाध्यायं कुर्वन्ति । लघुग्रामे मृतशरीरस्य बहिस्त्यागे शुद्धिः । महाग्रामे नगरे वा पाटकात् 'साही' गृहपतिस्ततो वा निर्गमे शुद्धिः ।। १३५८-१३५९ । । एतद्भाष्यकारोप्याह - भा. डहरग्गाममए वा, न करंती जा न नीणियं होइ । पुरगामे य महंते, पाडगसाहिं परिहरति ।। २२३ ।। उक्तार्था । अत्र परः वसतिसमीपे मृतस्य नीयमानस्य पुष्पादौ पतितेऽनध्यायः स्यात् । आचार्याह - निज्वंतं मुत्तुणं, परवयणे पुप्फमाइपडिसेहो । जम्हा चउप्पगारं, सारीरमओ न वति ।। १३६० ।। उपाश्रयात् हस्तशतमध्येन मृतकं नीयमानं मुक्त्वा पुष्पादी पतिते नानध्यायः ।। १३६० ।। एसो उ असज्झाओ, तव्वज्जिउऽज्झाउ तत्थिमा मेरा । कालपडिलेहणाए, गंडगमरुएण दिट्ठतो ।। १३६१ ।। एष संयमघातादिः पञ्चविधोऽस्वाध्यायः कथितः । तद्वर्जितः स्वाध्यायः । तत्रेयं मर्यादा प्रतिक्रामन् कालग्रहणवेलां प्रतिलिखन् प्रेक्षमाणः, तस्यां जातायां गण्डकदृष्टान्तो भावी, गृहीते काले शुद्धे मरुकदृष्टान्तः । । १३६१ ।। कालग्रहणकारणमाह - ● अस्वाध्यायिकं न भवति यस्मात् शारीरमस्वाध्यायिकं चतुर्विधं शोणितं मासं धर्म अस्थि च ततः पुष्पादिषु पतितेषु स्वाध्यायो न वर्जनीयः । आ.नि. प्रतिक्रमणा ************** ध्ययनम् सूत्रव्याख्या अस्वाध्याय निर्युक्तिः कालग्रहणविधिः । गाथा - १३६० १३६१ * भा. गाथा २२३ ९६८ [४६४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy