________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
मारणान्तिकवेदनोदये दृष्टान्तमाह -
रोहीडगं च नगरं, ललिया गुट्ठी य रोहिणी गणिया । धम्मरुइ कडुयदुद्धिय-दाणाइअणे य कंमुदए ।।१३१८।। 'अनेजस्य' - निःकष्कि]म्पस्य कर्मण उदये । रोहीतकपुरेऽरोहल्लीलाललितगोष्ठिका । तथैका जूर्णगणिका, रोहिणीत्यस्ति तत्र च ।। अनन्यजीवनोपाया, भक्तं राध्नोति तत्कृते । अन्यदा कटुकं तुम्ब, पक्कं जातं विषोपमम् ।२। मा भूवं निन्दिता गोष्ठ्यास्ततोऽन्यत्तत्कृते कृतम् । आद्यं धर्मरुचेर्दत्तं, मासपारणके मुनेः ।३। स गत्वोपाश्रये साधुरुञ्छमालोचयद्गुरोः । गुरुर्विज्ञाय गन्धेन, तमूचेऽमुं परित्यज ।४। भक्षितं मृत्यवे ह्येतत्तत्त्यक्तुं स गतोऽटवीम् । कथञ्चित् पतितो बिन्दुः, पात्रात्तत्रैत्य कीटिका: ।५। लग्नमात्रा मृता दृष्ट्वा, दध्यौ मेऽस्तु मृतिवरम् । माऽन्यजीवविघातो भूदिति त्यक्त्वाखिलोपधिम् ।६। एकत्र स्थण्डिले स्थित्वा, विधायाराधनाविधिम् । तद्भुक्त्वा वेदनां तीव्रामधिसह्य शिवं ययो ।७।
आ.नि. प्रति.अ.सूत्र. द्वात्रिंशता योगसंग्रहैः मारणान्तिकवेदनोदयेऽक्षोभता(२९) धर्मरुचिमुनिः। गाथा-१३१८
९४९
९४९ [४४५]
१. 'साधुस्तम्बमा...'लख ल.प ।
*********