________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
९४८
*****
दिनैः कतिपयैरन्ये, मन्त्रयन् साधवो मिथः । कुर्वन्तः सन्ति किं पूज्या, एकस्तत्र न्यभालयत् ॥७॥ तावगुरुर्न चलति न स्पन्दते न वक्ति च । आख्यत्तदर्थं सर्वेषां रुष्टाः सर्वेऽपि साधवः ॥८। आर्याऽऽख्यासि त्वमाचार्यान्, किं न कालगतानपि । सोऽवक्कालगता नैते, ध्यानं ध्यायन्ति किन्त्वमी | ९ | व्याघातमेषां मा कार्षुरूचुस्ते धूर्तता तव । त्वं साधयितुकामोऽसि, वेतालं पूर्णलक्षणैः ॥१० ॥ आचार्यैरिति तेः सर्वे, तेन सार्धं व्यधुः कलिम् । आनिन्ये तैस्ततो राजाऽऽचार्याः कालगता इति । ११ । दत्तेऽसौ लिङ्गिकः किन्तु, न निर्याणं कथञ्चन । राजा स्वयमथाऽऽलोक्य, मेने कालगतान् गुरून् ॥ १२ ॥ पुष्पमित्रमवज्ञाय, शिबिका सज्जिता ततः । अग्नयाद्यपाये महति, स्पृश्योऽङ्गुष्ठो मम त्वया । १३ । पुष्पस्तमिति सङ्केतात्, पस्पर्श प्रत्यबुद्ध सः । ऊचे किमार्थ ! व्याघातः, सोऽवग्वः शिष्यकैः कृतः । १४ । उक्तास्ते न कृतं रम्यं भङ्गो ध्यानस्य नः कृतः । प्रवेश्यमीदृशे ध्याने, येनस्याद्योगसङ्ग्रहः ।१५ ।
पुष्पमित्रः लिङ्गिकः कूटसाधुः न ददाति कालगतान् आचार्यान् निष्काशयितुं इति ते राजानं भणन्ति स्म ।
*******
*******
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
द्वात्रिंशता
योगसंग्रहैः
ध्यानसंवृ
तता (२८) पुष्यभूत्याचार्यः ।
गाथा - १३१७
९४८
[४४४]