________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९४६
**********
ग्राम्यता स्यान्मम ततस्तदुपायेन बोधये । अत्रान्तरेऽवतीर्णा च रङ्गे मगधसुन्दरी | ६ |
मङ्गले गीयमानेऽक्का, प्रागायद् गीतिकामिमाम् ।
पत्तेय वसंतमासे, आमोय पमोयइयंमि घुट्ठमि । मुत्तूणं कणियारए, भमरा सेवंति चूयकुसुमाई । । १३१५ ।।
श्रुत्वा गीतिमपूर्वां तां जज्ञौ मगधसुन्दरी । कर्णिकाराणि दुष्टानि, तत्परीहारतस्तया ॥७॥ गीतं नृत्तं च साक्षेपं, च्छलिता नाप्रमादतः । कर्तव्या साधुनाऽप्येवं, सर्वदाप्यप्रमादिता ॥८॥ लवालवोदाहरणमाह ।
भरुयच्छंमि य विजये, नडपिडए वासवासनागहरे । ठवणा आयरियस्स ( उ ), सामायारीपउंजणया । ।१३१६ ।। आसीद्धृगुपुरे सूरिरेकस्तेन निजोऽन्तिषत् । विजयः प्रेषितोऽवन्तीपुर्यां कार्येण केनचित् ॥१॥ स च ग्लानादिकार्येण, व्याक्षेपादन्तरे स्थितः । रुद्धश्चाकालवर्षेण, भूरभूदण्डकाऽऽकुला |२| वर्षावासं नटपिटग्रामे नागगृहे स्थितः । कर्तुं गुरुकुलावासं, व्यधत्त स्थापनागुरुम् ॥३॥ कालं जग्राह कृत्वा, चावश्यकं विधिपूर्वकम् । कालं प्रवेद्य पश्चाच कृत्वा स्वाध्यायमुत्तमम् ॥४ ॥ • लवालवः - अप्रमादः लवः सूक्ष्मकालमानम्, प्रतिक्षणं प्रमादः परिहर्त्तव्यः ।
*******************************
आ.नि. प्रति. अ. सूत्र.
द्वा. योगसंग्रहैः
क्षणे क्षणे सामाचार्य
नुष्ठानम् (२७) विजयः ।
गाथा - १३१५
१३१६
९४६
[४४२]