SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ.नि. नमस्कारनियुक्तिः। वस्तुद्वारे लोभे नन्दकथा । गाथा-९१८ अथ लोभे उदाहरणं - नगरं पाटलीपुत्रं, जितशत्रुर्नराधिपः । श्रावको जिनदत्तोऽभूद्वणिग् नन्दश्च लोभन: ।। भूभुजा खन्यमाने च, तडागे स्थानके क्वचित् । दृष्टाः कर्मकरैः फाला, मृल्लेपकलुषात्मका: ।२। फालद्वयं गृहीत्वा तैर्जिनदत्तस्य ढौकितम् । विलोक्य तेन मुक्तं तद्दत्तं नन्दस्य तेस्ततः ।३। ज्ञाततत्त्वः स जग्राह, स्माह चाऽऽनयतां परान् । अयस्कुशानां मूल्येन, तेनात्ताः शतशोऽपि ते ।४। स्वजनामन्त्रणेऽन्येधुर्वृद्ध इत्यनयत् बलात् । ग्राह्याः फाला इति सुतानुक्त्वाऽगादागताश्च ते ।५। नात्ताः फालाः सुतैस्तेऽथ, वलित्वाऽगुर्निजाश्रये । तान् घातेनाऽमुचन्भूमी, लेपः स्तोकोऽपतत्ततः ।६। राजपुम्भिर्गृहीतास्ते, राज्ञः सर्वं निवेदितम् । इतश्चायातवान्नदः, पुत्रानाह स्म किं कृतम् ।७। ऊचुस्ते ग्रहिलाः स्मो न, कार्य किं कुक्रयाणकः । नन्दोऽथ कुपितः स्वाही, कुशीमादाय भग्नवान् ।। इयाल्लाभो ममाद्याऽगादेतयोरेव दोषतः । व्यलपन स्वजनाश्चैवं, किमिदं नन्द ! निर्ममे ।९। राजपुम्भिस्ततो नन्दजिनदत्तौ नृपान्तिके । धृत्वा नीतौ नृपोऽप्राक्षीत्, श्राद्धं नात्ताः कथं कुशाः ।१०। ५३१ ५३१ [२७] *****
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy