SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः गच्छतो वन्दनाद्यर्थ, तत्पती तु न वत्सलो । अत्रान्तरेऽस्या द्वितीयं, मायाकर्मोदयं गतम् ।३५। भिक्षार्थ साऽन्यदा याता, श्रीमती वासवेश्मगा । गुम्फन्ती हारमौज्झत्तं, तस्ये दातुं लघूत्थिता ।३६ । भित्तेरुत्तीर्य तं हारं, चित्रकेकी तदाऽगिलत् । स्वस्थानस्था च साध्वी, तद्दृष्ट्वाऽऽश्चर्येण विस्मिता ।३७ । साऽऽत्तभिक्षा ययो हारं, श्रीमती तत्र नेक्षत । पृष्टाः सर्वे तयाऽवोचनात्राऽऽगात्कोऽप्य विना ।३८ । तत: साध्व्याः प्रवादोऽभूत्तयाऽज्ञापि प्रवर्तिनी । सोचे भद्रे ! विचित्रोऽयं, परिणामोऽत्र कर्मणाम् ।३९। श्रीमतीकान्तिमत्यो च, हसतस्तत्प्रियो ततः । साध्वी साध्वीति वादिन्यौ, भाक्तिक्यौ स्तो युवामिति ।४०। तयोर्विपरिणामस्तु, न जातो जातु तां प्रति । साध्व्यप्युप्रैस्तपोभिस्तदुःक[ष्कर्म निरमूलयत् ।४१।। अन्यदा श्रीमती वासवेश्मन्यस्ति सभर्तृका । स हारस्तावदुद्वान्तश्चित्रादुत्तीर्य केकिना ।४२। ततस्तौ दम्पती दृष्टा, हारं संवेगमागती । सैव साध्वी ध्रुवं साध्वी न याऽऽख्यद् दृष्टमप्यदः ।४३। अथ तानि क्षमयितुं, प्रवृत्तान्यखिलान्यपि । अत्रान्तरे बभूवाऽस्याः, केवलज्ञानमुज्ज्वलम् ।४४ । देवैश्च महिमा चक्रे, पृष्टा तैः प्राग्भवं जगो । तच्छ्रुत्वा प्राव्रजंस्तानि मायाचेष्टितमीदृशम् ।४५। आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे मायायां * सर्वाङ्गसुन्दरी कथा । गाथा-९१८ ५३० 藥華藥華藥華藥業 ***** ******** ५३० [२६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy