________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
तथा चाह - भा. बहुयाण सहयं, सुया एगस्स य असद्दयं । वलयाण नमीराया, निक्खंतो मिहिलाहिवो।।२१४ ।। इतो गन्धारदेशस्योत्तंसे सिंहपुरे पुरे । राजा नगगती राजपाटिकां सोऽन्यदाऽगमत् ।। दृष्ट्वा कुसुमितं चूतमेकं मञ्जरिमाददे । गृह्णद्धिस्तजनरेवं, काष्ठशेषः कृतोऽथ सः ।२। प्रत्यावृत्तेन भूभर्ता, पृष्टं चूतद्रुमः क सः । मन्त्र्यूचे देव ! देवेन, गृहीतैकाऽस्य मञ्जरी ।३। । गृह्णद्धिरपरेरेवमयमीदृग्दशः कृतः । दध्यो राजाऽथ राजश्रीरप्येवमिति सोऽबुधत् ।४। सोपि व्रतं समादाय, निर्ममो व्यहरद्धवि । तथा चाह - भा. जो चूयरुक्खं तु मणाभिरामं, समंजरीपल्लवपुष्फचित्तं । रिद्धि अरिद्धिं समुपेहिया णं, गंधाररायावि समिक्ख धर्म ।।२१५।। क्षितिप्रतिष्ठितपुरे, चत्वारोपि महर्षयः । चतुरे देवकुलेऽन्यान्यद्वारेषु तेऽविशन् ।१। विमुखः कथमेषां स्या, ततः सोऽभूञ्चतुर्मुखः । आशैशवात् करकण्डोः, कण्डूतिरभवत्ततः ।२। कृत्वा स कर्णकण्डूयां, कण्डूयनमगोपयत् । तं दृष्ट्वा द्विमुख: स्माह, करकण्डुमुनि प्रति ।३।
आ.नि. प्रति.अ.सूत्र.
द्वात्रिंशता योगसंग्रहः द्रव्यभावव्युत्सर्गः(२५) करकण्ड्वादिः गाथा-१३११
भा. गाथा २१४-२१५
९४३
९४३ [४३९]