________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९४०
आगत्यास्थात्ततस्तज्ज्ञातः सल्लक्षणः शिशुः । ततो जयजयारावाजुम्भमाणः स उत्थितः ।२७। तदेवाश्वेऽधिरूढोऽसौ, करकण्डुः प्रचण्डरुक् । मातङ्ग इति यच्छन्ति, प्रवेशं न द्विजातयः ।२८। सोऽथ तं दण्डमादत्त, वज्रवत्तेन जज्वले । नेशर्द्विजास्ततो भीता, राज्ये सर्वय॑वेशि सः ।२९। वाटचानकमातङ्गा, ब्राह्मणास्तेन चक्रिरे । राजा यत्करुते तत, स्यान्माों राजकतो यतः ।३०। उक्तं च - दधिवाहनपुत्रेण, राज्ञा च करकण्डुना । वाटधानकवास्तव्याश्चण्डाला ब्राह्मणीकृताः ।३१। आययो स ततो विप्रो, राज्ञो ग्राममयाचत । राजोचे भाति यस्ते तं, गृहाण ग्राममग्रिमम् ।३२। सोऽवग्मद्वेश्म चम्पायां, तद्ग्रामं तत्र देहि मे । करकण्डुस्ततो लेखं, ददो चम्पापुरीशितुः ।३३।। 'स्वस्ति स्वर्गरुचोपि काशनपुराद्धोगिप्रियंभावुकाद्राजा श्रीकरकण्डुरद्भुतनिधौ चम्पाभिधायां पुरि श्रीमन्तं दधिवाहनक्षितिपतिं सस्नेहमाज्ञापयत्येकोऽस्मै स्वभुवि द्विजाय भवता ग्रामः प्रदेयो महान् ।'
ग्रामं वा नगरं वापि, गृहीथास्त्वं च मद्धवि । ददतां गृह्णतां राजन्, येन स्नेहो भवेदिति ।३४। सोऽवग्रुष्टोऽन्त्यजः स्वं न, वेत्ति लेखं ददाति मे । आख्यत्प्रत्यागतो दूतः, स्वप्रभोस्तत्तदेव सः ।३५। सर्वोघेणाप्यहङ्कारी, गत्वा चम्पामवेष्टयत् । प्रत्यहं वर्त्तते युद्धं, श्रुत्वा सा संयती ततः ।३६ । १. 'प्रोक्तं गतो' ल।
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहः द्रव्यभावव्युत्सर्गः(२५) करकण्ड्वादिः। गाथा-१३११
९४० [४३६]