________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
वर्धमानः समं डिम्भैः, क्रीडचेऽस्मि वो नृपः । तत्करं दत्त मे शुष्ककच्छुकण्डुयनात्मकम् ।१६ । करकण्डुस्ततः ख्यातः, साध्व्यां तस्यां स वत्सलः । संयती मोदकांस्तस्य, भव्यां भिक्षां च साऽप्यदात् ।१७। श्मशानं स युवाऽरक्षत्, साधू तत्रान्यदाऽऽगतौ । तत्रैकं वंशकुञ्जस्थं, दण्डं वीक्ष्य लघोबृहन् ।१८। आख्यद्य एतमाऽऽदत्ते, दण्डं राजा स जायते । किन्तु प्रतीक्ष्यो यावत्स, वर्धते चतुरङ्गलीम् ।१९। अश्रौषीत्करकण्डुस्तद् द्विजश्चैकोऽथ स द्रुतम् । अधोऽङ्गलचतुष्कान्तं, छित्वा दण्डं रहोऽग्रहीत् ।२०। करकण्डुस्तमालोक्य, तत्कराद्दण्डमाच्छिनत् । द्विजस्तं करणे नीत्वा, तं दण्डकममार्गयत् ।२१। स ऊचे मे श्मशानं, तद्दण्डं मे तं ददामि न । गृह्णात्वन्यं द्विजो नैच्छदूचे चार्थोऽमुनैव मे ।२२। पृष्टः कारणिकैर्डिम्भः, किं न दत्से स ऊचिवान् । अहं राजा भविष्यामि, दण्डस्यास्य प्रभावतः ।२३। स तेरूचे हसित्वाऽथ, राज्यं ते स्याद्यदा तदा । ग्राममेकं द्विजस्यास्य, दद्यास्तत्स प्रपत्रवान् ।२४ । द्विजेनान्ये द्विजास्तेन, तं हन्तुं मेलितास्ततः । तज्ज्ञात्वा पितरौ पुत्रं, तमादाय त्रयोऽनशन् ।२५। जग्मुस्ते काञ्चनपुरे, तत्रापुत्रो मृतो नृपः । अश्वोऽधिवासितस्तस्य, बहिः सुप्तस्य सन्निधौ ।२६ । 1. 'लघु ल, । • स शुष्ककण्ड्वा गृहीतः । कण्डुयनरूपं करं मे दत्त इति भणति स्म । * बृहन् - ज्येष्ठः साधुः लयोः साधोराख्यत् इत्यर्थः ।
XXXKRRE
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहः द्रव्यभावव्युत्सर्गः(२५) करकण्ड्वादिः। * गाथा-१३११
९३९
९३९ [४३५]
準準準準準準準準準
*************