SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९३६ ****** परं बिभेमि ते राज्ञो मा भैषीरिति सोऽब्रवीत् । तेन विज्ञप्तिका प्रेषि, राज्ञस्तेनोक्तमेत्वसौ |४ | श्रावकेण स आनिन्ये, तदानीं च जिनेश्वरः । श्रीवीरः समवासार्षीत्तत्र शत्रुञ्जयो नृपः ॥५॥ सर्वद्धय निर्ययौ नन्तुं पौराश्च सपरिच्छदाः । जिनदेवं चिलातोऽथाप्राक्षीत्कुत्रैत्ययं जनः । ६ । द्रष्टुं रत्नानि सोऽवादीत्ततो द्वावपि तौ गतौ । दृष्ट्वा समवसरणं, चिलातोऽतीवविस्मितः ॥७॥ प्रभुं प्रणम्य रत्नानि, पप्रच्छाऽथ सविस्तरम् । तस्याख्यद्द्रव्यरत्नानि, भावरत्नानि च प्रभुः ॥८ ॥ आद्यं सामायिकं सारं, सचतुर्विंशतिस्तवम् । तार्त्तीयीकं वन्दनकं, प्रतिक्रमणसङ्गतम् ।९। कायोत्सर्गस्तथा प्रत्याख्यानं रत्नानि भावतः । तेजः प्रभावयुक्तानि गृहाणात्मविभूषणम् ॥१० ॥ चिलातः प्रतिबुद्धोऽथ, भावरत्नान्ययाचत । महाव्रतादिरत्नानि, स्वामी तस्य ततो ददौ । ११ । उत्तरगुणप्रत्याख्यानोदाहरणमाह - वाणारसी य नयरी, अणगारे धम्मघोस धम्मजसे । मासस्स य पारणए, गोउलगंगाइ अणुकंपा ।। १३११ । । वाणारस्यां चतुर्मासीं धर्मघोषमुनिः स्थितः । तथा धर्मयशास्तौ द्वौ, मासान्मासान् भोजिनौ । १ । तुर्यपारणकस्याहि मा भूव नित्यवासिनी । कृत्वा सूत्रार्थपौरुष्यो, निरगातां महाऋषी ॥२॥ ****** आ.नि. प्रति. अ. सूत्र. द्वा. योगसंग्रहैः मूलगुणप्रत्या ख्यानम् (२३) चिलातः उत्तरगुण प्रत्याख्यानम् (२४) धर्मघोषधर्मयशसौ । गाथा - १३१९ ९३६ [ ४३२ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy