SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः आ.नि. * प्रति.अ.सूत्र. द्वा.योगसंग्रहै: सर्वकामविरक्त* त्वम् (२२) * देवलासुतः ९३५ सर्वाण्यप्यसितगिरि, प्रययुस्तापसाश्रमम् । दासो दासी च कालेन, तावुत्प्रव्रज्य जग्मतुः ।६। गर्भः सन्नपि नाऽऽख्यातो देव्या वृद्धिं गतोऽथ सः । अयशोभीरुणा राज्ञा, प्रच्छन्नं धारिताऽथ सा ।७। प्रसुवाना मृता देवी, जाता तु दुहिताद्धता । पिबन्ती स्तन्यमन्यासां, तापसीनामवर्धत ।८। सोक्ता नामार्धसङ्काशा, क्रमाद्यौवनमासदत् । विश्राम्यति स्म पितरं, साउटवीतः सदाऽऽगतम् ।९। योवनेऽस्या: स रक्तोऽथ, विषमा विषयाः खलु । दधावेऽन्येधुराश्लेष्टुं, चस्खालोटजदारुणि ।१०। पतितोऽचिन्तयत् पापमत्रैव फलितं हहा । नामुष्मिकं ज्ञायते च, प्रबुद्धो जातिमस्मरत् ।११।। सर्वकामविरक्ताख्यं, बभाषेऽध्ययनं तदा । दत्ता सुतापि साध्वीनां, स सिद्धः साऽपि निर्वृता ।१२। एवं सर्वकामविरक्तैर्योगा: सङ्गृह्यन्ते । प्रत्याख्यानद्वारे मूलगुणप्रत्याख्यानोदाहरणमाह । न. २००० । कोडीवरिसचिलाए, जिणदेवे रयणपुच्छ कहणा य । साएय सत्तुंजय, वीरे कहणा य संबोही ।।१३१०।। साकेतनगरे क्षीणशत्रुः शत्रुञ्जयो नृपः । जिनदेव: श्रावकोऽगात्, कोटीवर्षपुरेऽर्जितुम् ।१। तत्राऽनार्यश्चिलातो राट्, तस्य रत्नान्यढोकयत् । विस्मितस्तैश्चिलातोऽथ, क्वैतानीति तमब्रवीत् ।। जिनदेवोऽभ्यधादस्मद्राज्ये सन्ति बहून्यपि । सोऽभ्यधादहमप्येमि, तत्र रत्नानि वीक्षितुम् ।। 準準準準準準準準準準準準準準準準準準準 * मूलगुणप्रत्याख्या नम् (२३) चिलातः। गाथा-१३१० [४३१]]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy