SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ९३४ [४३०] रोगस्तस्याऽन्यदोत्पन्नः, शक्यते न चिकित्सितुम् । आहुर्वेद्या रुजोऽमुष्य, निवृत्तिर्मांसभक्षणात् । २ । स्वजनाः पितरौ चाऽथ, सर्वे प्रेम्णा भणन्ति तम् । सोऽवदत्रैव भक्ष्यामि, सुचिरं रक्षितं व्रतम् ॥३॥ मृत्युं स्वीकृत्य सावद्यं, प्रत्याचख्यौ विचक्षणः । शुभेनाऽध्यवसायेन, स्वात्मदोषोपसंहृतेः ॥४। अवाप्य केवलज्ञानं, सिद्धिसौधं जगाम सः । सर्वकामविरक्ततामाह - उज्जेणि देवलासु, अणुरत्ता लोयणा य पउमरहे । संगयओ अणुमईया, असियगिरी अद्धसंकासा ।। १३०९ ।। अभूदुज्जयिनीपुर्या, भूपतिर्देवलासुतः । तस्याग्रमहिषी राज्ञो, नाम्नाऽनुरक्तलोचना । १ । केशान् विन्यस्तयन्ती सा राज्ञः पलितमन्यदा । वीक्ष्य साक्षेपमाचख्यो, स्वामिन् दूतः समागतः । २ । राजा ससंभ्रमः स्माह, क्वासौ पश्याम्यहं न किम् । साऽवदद्धर्मदूतोऽयं, पलिताख्यो निरीक्ष्यताम् ॥३॥ तं निरीक्ष्याधृतिं चक्रे, राजाऽस्मत्पूर्वजाः पुराः । अदृष्टपलिताः प्रापुर्वीक्षां धिग्मां प्रमद्वरम् ॥४। सुतं पद्मरथं राज्ये, न्यस्याऽभूत्तापसः स्वयम् । देवी सङ्गतको दासः, प्रेष्याऽणुमतिका तथा ॥५॥ १. 'निर्वृति' प, 'निर्वृत्ति' ल । सङ्गत्तकदासः अनुमतिकादासी च इत्यर्थः । ************** ************ आ.नि. प्रति. अ. सूत्र. द्वा. योगसंग्रहैः आत्मदोषोप संहारिता (२१) जिनदेवः । सर्वकामविरक्त त्वम् (२२) देवलासुतः । गाथा - १३०९ ९३४
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy