SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः एषां संवेगाद्योगसङ्ग्रहः । प्रणिधिर्माया, सा द्विधा तत्र द्रव्यप्रणिधावुदाहरणमाह - __ भरुअच्छे जिणदेवो, भयंतमिच्छे कुलाल भिक्खू य । पइठाण सालवाहण, गुग्गुल भगवं च नहवाणे ।।१३०४।। भरुकच्छपुरेऽत्राभूपतिर्नरवाहनः । स समृद्ध्याऽऽत्मकोशस्य, श्रीदमप्यवमन्यते ।। इतः प्रतिष्ठानपुरे, पार्थिवः शालवाहनः । बलेनातिसमृद्धः स, रुरोध नरवाहनम् ।। आनयत्यरिशीर्षाणि, यस्तस्यादान्महद्धिकः । लक्ष विपक्षं तत्तस्य, नित्यं निघ्नन्ति तद्भटाः ।३। हालस्यापि भटाः केऽप्याऽऽनिन्युः सोऽदान किञ्चन । सोऽथ क्षीणजनो नंष्ट्वा, पुनरेति समान्तरे ।४। पुननष्ट्वा तथैवेति, नाऽभूत्तत्तद्रहणक्षमः । अथेको मायया हालमन्त्री स्वं निरसारयत् ।५। । भरुकच्छपुरे गत्वा, भारमादाय गोरगुलम् । एकत्रायतने तस्थौ, देवताराधनापरः ।। ज्ञातं सर्वत्र हालेन, सचिवो निरवास्यत । तं परम्परयाऽज्ञासीद्धरुकच्छपुराधिपः ।७। अपास्तोऽल्पापराधेऽपि, निजाउमात्यस्ततः कृतः । ज्ञात्वा विश्वस्तं सोऽवक्तं, राज्यं पुण्येन लभ्यते ।८। तदन्यस्य भवस्याथै, पाथेयं कुरु पार्थिव !। धर्मस्थानविधानाद्यैर्द्रव्यमव्याययत्ततः ।। १. 'नरा...' ल, ख । हालः - शालवाहनराजा । * द्वितीयवर्षे इत्यर्थः । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहः निर्मायता (१८) शालवाहनः। गाथा-१३०४ ९३१ KARNER ९३१ [४२७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy