________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आख्यत्प्रतिगतो दूतस्तत्तदुक्ताधिकं प्रभोः । कुपित: सोऽथ सर्वोघेणागत्यावेष्टयत्पुरम् ।४४ । धुन्धुमारोऽल्पसेनाङ्गो, बिभ्यनैमित्तिकं जगौ । स ऊचे वीक्ष्य वक्ष्यामि, तद्रष्टुमथ सोऽगमत् ।४५। क्रीडन्त्येकत्र डिम्भानि, भीषयामास वीक्ष्य सः । तत्र चाऽऽस्ते नागगृहे, वारत्तकमहाऋषिः ।४६। प्रतिमास्थस्तत्र तानि, रुदन्ति प्रययुर्भयात् । वारत्तकोऽवदत्तानि, मा भैषुरिति सम्भ्रमात् ।४७। नैमित्तिकस्तदाकर्ण्य, नृपस्याऽऽख्यन्न ते भयम् । अवस्कन्दमथो दत्वा, धृत्वा प्रद्योतभूपतिम् ।४८। धुन्धुमारोऽन्तरानीय, पुरद्वाराण्यबन्धयत् । अथ प्रद्योतमूचे ते, किमातिथ्यं विधीयताम् ।४९। सोऽवदद्रोचते यत्ते, धुन्धुमारो ददौ ततः । महाभूत्याऽङ्गारवतीं, तया सार्धमथाऽस्ति सः ।५०। राजपाटीमथाऽन्येास्तत्र कुर्वनवन्तिराट् । दृष्ट्वा बलाल्पतामूचे, गृहीतोऽहं कथं प्रिये!५१। सा साधुवाक्यमाचख्यो, तन्मूलं स गतोऽवदत् । नैमित्तिकमुने ! वन्दे, सस्माराऽथोपयुज्य सः ५२। डिम्भाभयगिरं दत्ता, संवेगं परमं गतः । सुजातो धर्मघोषश्च, तथा चन्द्रयशा अपि ।५३।
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहः संवेगपरता(१७) वारत्तकमुनिः। गाथा-१३०३
९३०
ARRIER
९३० [४२६]