________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९२९
अभूद् बहुश्रुतो भ्राम्यन्, वारत्तगपुरं ययौ । तत्रेशोऽभयसेनोऽभून्मन्त्री वारत्तकः पुनः ॥३३ | तद्गृहे धर्मघोषोऽगाद्, भ्रमन्भिक्षामुपाहृतम् । परमान्नं सखण्डाज्यं, बिन्दोः पाते न सोऽग्रहीत् ॥ ३४ ॥ वारत्तको गवाक्षस्थो, दध्यौ नैच्छदिदं कथम् । तावद्विन्दौ लगन्ति स्म, मक्षिकास्ताश्च खादितुम् ॥३५ । गृहोलिका समायासीत्कृकलासश्च तां पुनः । ततस्तदर्थं मार्जारी, जिघत्सू तां पुनः शुनौ । ३६ । एक: स्थायी परो यायी, एकद्रव्यार्थिनोस्तयोः । बभूवाऽऽस्फालनं पश्चात्कलिस्तत्स्वामिनोरभूत् ॥३७॥ ततो बलं मेलयित्वा चक्रे ताभ्यां महारणः । वारत्तकस्ततो दध्यो, स नैच्छत्कारणादतः ॥३८ । इति ध्यायन्सोपि जातिमस्मरत् प्रतिबुद्धवान् । उपधिं देवताऽयच्छद्वारत्तकमुनिस्ततः । ३९ । सुंसमारपुरोऽयासीद्विहरन् क्ष्मामनिश्रया । धुन्धुमारो नृपस्तत्र तस्याङ्गारवती सुता ॥४०॥ सा परिव्राजिकां धर्मविचारे जितवत्यथ । सापत्न्येऽमुं क्षिपामीति, वैरात्प्रव्राजिकाऽधमा । ४१ । लिखित्वा चित्रफलकेऽवन्त्यां प्रद्योतभूपतेः । ऐक्षयत्तां स पप्रच्छ, साऽऽख्यझण्डोऽथ तत्कृते ।४२। प्रेषीतं ततो धुन्धुमारस्तमिदमुक्तवान् । विद्यावद्विनयेनैव लभ्यन्ते कन्यका अपि ।४३ |
९. नोभवत् ख ल ।
*****************************
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या द्वात्रिंशता योगसंग्रहैः
संवेगपरता (१७) वारत्तकमुनिः । गाथा - १३०३
९२९ [ ४२५]