SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ * M * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः सा दध्यौ मम सङ्गेन, सरुग् जातोऽयमप्यतः । संविग्नाऽनशनं चक्रे, तेनैव निरयाम्यत ।२२। देवो जज्ञेऽवधेर्ज्ञात्वाऽऽयातो नत्वा तमब्रवीत् । किं कुर्वे सोऽपि संविग्नः, स्माह पित्रोविलोकनात् ।२३। जिघृक्षामि व्रतं देवस्तमूचे तत्करिष्यते । तदैवोत्पाट्य तं तत्रोद्याने मुक्त्वा पुरोपरि ।२४। शिलां स चक्रे महतीं, लोकोऽभूदयाकुलोऽखिलः । धूपहस्तोऽवदद्राजा, योऽस्ति रुष्टः सुरोऽसुरः ।२५। स उद्दर्शयतु स्वं मे, येन प्रसादयामि तम् । देवोऽवदत् सुजातोऽयं, श्रावकः परमार्हतः ।२६। निर्दोषो मन्त्रिणाऽदूषि, तत्सर्वं चूरयाम्यहम् । तं प्रसाद्याऽऽनयध्वं चेत्ततो मुञ्चामि नाऽन्यथा ।२७। राजोचे काऽस्ति देवोऽवग, बाह्योद्याने नृपस्ततः । तत्र गत्वा सपोरोऽपि, क्षमयित्वा तमानयत् ।२८। शिलां संहत्य देवोऽगात्सुजातः पितरौ पुनः । आपृच्छ्य व्रतमाऽऽदत्त, पश्चात्तं पितरावपि ।२९। ते त्रयोपि शिवं प्रापुर्मन्त्री राजा प्रवासितः । सुजातस्य गुणान्मन्त्री, श्रुत्वा सर्वत्रगानिमान् ।३०। यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा चित्तं, यथा शीलं तथा गुणाः ।३१। ततश्च सोपि निर्विन्नो, दध्यो पापं मया कृतम् । गतो राजगृहे साधुसन्निधौ व्रतमात्तवान् ।३२। १. 'तत्पितरा...' ख ल । आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः संवेगपरता। (१७) सुजातः । गाथा-१३०३ ९२८ KARE ९२८ [४२४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy