________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९२६
चंदजसा रायगिहे, वारत्तपुरे अभयसेण वारत्ते । सुसुमार धुंधुमारे, अंगारवई य पज्जोए ।। १३०३ ।। मित्रप्रभो नृपश्चम्पापुर्यां राज्ञी च धारिणी । धनमित्रः सार्थवाहो, धनश्रीस्तस्य वल्लभा ॥१॥ तस्योपयाचितशतैर्जाते पुत्रे जनोऽवदत् । अहो सुजातमस्येति, कुलेऽमुष्मिन्महर्द्धिके ॥२॥ सुजात इति तस्याऽथ, द्वादशेह्नि कृताऽभिघा । सोऽत्यन्तरूपवांस्तस्य, ललितं शिक्षते जनः ॥३॥ अमात्यो धर्मघोषोऽभूत्प्रियङ्गस्तस्य च प्रिया । सा सुजातगुणान् श्रुत्वाऽवोचद्दासीं पथाऽमुना ॥४। यदैत्येष तदाख्येयं येन प्रेक्षे नवं स्मरम् । तेनाऽध्वनाऽन्यदा यान्स, प्रियङ्गोः कथितस्तया । ५ । दृष्ट्वाऽथ सा सपत्नीकं, तं प्रियङ्गरदोऽवदत् । धन्या साऽसौ प्रियो यस्या, रतेरिव मनोभवः । ६ । । सुजातवेषमाधाय, प्रियङ्ग रमतेऽन्यदा । तद्विलासांस्तदालापान्, स्वसपत्नीषु कुर्वती ॥७॥ अमात्यश्च तदायातोऽन्तःपुरं निर्ध्वनीति सः । शनैरेत्य द्वारसन्धौ तद्विक्रीडां निरक्षत ॥८ ॥ सोऽथ दध्यौ विनष्टं मेऽन्तःपुरं छन्नमेव तत् । सुजातं मारयामीति परं बिभेमि तत्पितुः । ९ । माऽभूत्ततो विनाशो मे, राजमान्योस्ति येन सः । कूटं लेखं विधायाऽथ राज्ञो राजद्विषस्ततः । १० ।
• राजद्विषः राज्ञः कूटं लेखं विधाय मन्त्री नृपाग्रे (मित्रप्रभनृपाग्रे ) ऽवाचयत् तथाहि भो सुजात ! त्वया मित्रप्रभनरेश्वरः घात्योऽर्धराज्यं तव दास्यते ।
**#####
आ.नि.
प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
द्वात्रिंशता योगसङ्ग्रहैः संवेगपरता (१७)
सुजातः । गाथा - १३०३
९२६
[४२२]