SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ९२१ ऊचे मया प्रभुः सत्यं, न पृष्टश्चिन्तयंस्तथा । जातिस्मृत्या ज्ञातशौचः, सोऽगात्प्रत्येकबुद्धताम् ।१२ । एवं शौचेन सर्वेषां शुद्धिः स्याद्योगसङ्ग्रहः । सम्यग्दृष्टिद्वारमाह - सायंमि महाबल, विमलपभे चेव चित्तकम्मे य । निप्फत्ति छट्ठमासे, भूमीकम्मस्स करणं च ।।१२९७ ।। साकेतपुरनाथेन, महाबलमहीभुजा । दूतः पृष्टः किमन्येषामस्ति मे नास्ति कथ्यताम् ॥१ ॥ सोऽवक् चित्रसभा नास्ति, तदेवाहूय भूभुजा । विमलः प्रभाकरश्च प्रख्याती चित्रकारिणौ । २ । अद्धीकृत्याऽर्पिताऽऽस्थानसभा चित्रयितुं तयोः । जवन्यन्तरितं चित्रयतोरेकेन निर्मितम् ॥३॥ संस्कृता भूर्द्वितीयेन, राजा तद्रष्टुमाययौ । चित्रमेकस्य दृष्ट्वाऽदान्मुदितः पारितोषिकम् ॥४। पृष्टः प्रभाकरोऽवादीचित्रं नाऽकारि भूः कृता । राजोचे भूः कृता कीदृक् जवनीमपनीय सः ॥५ । अदर्शयन्नृपोऽपश्यचित्रं तत्राऽतिनिर्मलम् । राजोचे किमिदं सोऽवक्, प्रतिबिम्बमिदं प्रभो ! | ६ | तचित्रं छादितं भूमिर्दृष्ट्वा रूप्यमयीव सा । राजोचेऽस्त्वेवमेवैषा, तस्यादाद् द्विगुणं धनम् ॥७॥ **************************** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः सम्यक्त्व शुद्धिः (१२) चित्रकारः । गाथा - १२९७ ९२१ [४१७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy