________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आसीद्यदा शौर्यपुरे, समुद्रविजयो नृपः । तदा यज्ञयशास्तत्र, तापसस्तस्य वल्लभा ।१। सोममित्रा सुतो यज्ञदत्तः सोमयशाः स्नुषा । तत्पुत्रो नारदस्तेषामुञ्छवृत्त्या च भोजनम् ।२। तदप्येकान्तरे ते चाऽशोकाधो नारद सुतम् । मुक्त्वोञ्छन्ति दिवा यान्तो, जृम्भकास्तेन वर्त्मना ।३। तं दृष्ट्वाऽवधिना ज्ञात्वा, स्वनिकायच्युतं ततः । स्तम्भन्ति स्म तरोच्छायां, मा भूत्तापोऽस्य दुःखकृत् ।४। प्रत्यावृत्तैर्गृहीतस्तैः, शिक्षितो व्यक्तचेतनः । पूर्वप्रेम्णा ददे तस्य, विद्याः प्रज्ञप्तिकादिकाः ।५। याति व्योम्ना ततः कृत्वा, पादयोर्मणिपादुके । सुवर्णकुण्डिकापाणिरन्यदा द्वारिकां गतः ।६। पृष्टः कृष्णेन किं शौचमिति प्रश्नोत्तराक्षमः । कथान्तरेण व्याक्षेपं, कृत्वा नारद उत्थितः ।७।। ययो पूर्वविदेहेऽथ, तत्र सीमन्धरः प्रभुः । किं शौचमिति पृष्टः सन्, हरिणा युगबाहुना ।८। । सत्यं शौचमिति प्रोचे, तज्ज्ञात्वा नारदस्ततः । गतोऽपरविदेहेऽथ, जिनस्तत्र युगन्धरः ।९। तदा तदेव तत्रापि, पृष्टस्तत्रत्यविष्णुना । सोपि स्वामी तदेवाख्यत्तदप्याकर्ण्य नारदः ।१०। द्वारवत्यां ययो शौचं, सत्यं विष्णोरचीकथत् । कं सत्यमपि भूयोपि, विष्णुनाऽप्रच्छि नारदः ।११। • युगबाहुवासुदेवेन सीमन्धरस्वामी पृष्टः इत्यर्थः ।
आ.नि. प्रतिक्रमणाध्यायनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहः संयमविषये शुचिता(११)
नारदः। गाथा-१२९६
९२०
९२०
[४१६]