________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
९१८
इतो ज्योतिर्यशावत्सपाली नीत्वान्नमात्मनः । पुत्रस्य पन्थकस्यार्थे, वलन्ती दारुकाष्ठभृत् ।४। दृष्ट्वा तेनाथ तां हत्वाऽऽदाय तदारुभारकम् । शीघ्रं मार्गान्तरेणैत्य, गुरोरने करो धुनन् ।५। आख्यद् वः प्रियशिष्येण, ज्योतिर्यशा व्यनाश्यतः । आगतः सोऽथ गुरुणा, ययो निःसारितोऽटवीम् ।६। तत्र शुद्धया मनोध्यानाजातजातिस्मृतिव्रतम् । सोऽवाप केवलं चाथ, महिमानं व्यधुः सुराः ।७। देवैः कथितमेतस्याभ्याख्यानं प्रददेऽमुना । रुद्रको हीलितो लोकर्दध्यो सत्यं मया ददे ।८। अभ्याख्यानमिति ध्यायन्, सोऽगात्प्रत्येकबुद्धताम् । उपाध्यायः सपत्नीकः, प्रव्रज्य प्राप्य केवलम् ।। चत्वारोऽपि ययुः सिद्धिमेवं कर्तव्यमार्जवम् । शुचिद्वारमाह -
सोरीय सुरंबरेवि य, सिट्ठी य धणंजए सुभद्दा य । वीरे य धम्मघोसे, धम्मजसेऽसोगपुच्छा य ।।१२९४ ।। पुरं शोर्यपुरं नाम, यक्षस्तत्र सुरांवरः । आसीद्धनञ्जयः श्रेष्ठी, सुभद्रा तस्य वल्लभा ।।। नत्वा यक्षं कृतं ताभ्यां, पुत्रार्थमुपयाचितम् । करिष्ये सेरभशतयज्ञं तेऽग्रे सुते सति ।२। •व्यनाशि अतः इति वाच्यम् । * महिषशतेन यज्ञं करिष्ये इत्यर्थः ।
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या
द्वात्रिंशता योगसङ्ग्रहः आर्जवम् (१०)
अङ्गऋषिः संयमविषये शुचिता(११) धनञ्जयश्रेष्ठी। गाथा-१२९४
९१८ [४१४]