________________
E*
**
*
**
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
*
सुट्ठगाइयं इत्यादि स्पष्टा । अत्रान्तरे च स क्षुल्लकुमारो रत्नकम्बलम् । युवराजो यशोभद्रो, निर्मलं रत्नकुण्डलम् ।११। सार्थवाही निजं हारं, राजेभारोहकोऽङ्कुशम् । मन्त्री च कटकं लक्षमूल्यानि निखिलान्यपि ।१२। त्यागं यस्तत्र दत्ते स्म, स समस्तोऽप्यलिख्यत । ज्ञात्वा त्यागे कृते राज्ञस्तोषो रोषोऽन्यथा पुन: ।१३। सर्वेऽपि प्रातराहूताः, क्षुल्लः पृष्टोऽब्रवीत्कथाम् । यावत् त्वन्मूलमायातो, राज्यलक्ष्मीसमीहया ।१४। गृहाण राज्यं राज्ञोचे, स नैच्छदिदमूचिवान् । व्रतं निर्वाहयिष्यामि, बुद्धो गीत्यानयाऽस्म्यहम् ।१५। युवराजोऽवदद्वाजा, वृद्धो राज्यं ददाति न । मारयित्वा तदाऽऽदास्ये, इति चिन्ताऽभवन्मम ।१६ । ऊचे राजाऽधुनाप्येतगृह्यतां सोऽपि नैहत । सार्थवाही जगौ पत्युर्गतस्य द्वादशाब्द्यभूत् ।१७। ततोऽन्यानयनेच्छातः, श्रुत्वा गीतिमिमां स्थिता। मन्त्र्यूचेऽन्यनृपैः सार्धं, घटनात: स्थितोऽधुना ।१८। प्रत्यन्तराजभिर्मिण्ठः, प्रोक्तो हस्तिनमानय । यद्वा मारय तन्मेने, न्यवृत्तं गीतिकाश्रुतेः ।१९। अस्मत्कृतेऽनया गीतं, किलेति प्रतिबोधतः । दत्तोऽस्माभिः प्रभो त्यागस्तुष्टः सर्वेषु भूपतिः ।२०। सर्वे क्षुल्लकुमारस्य, मार्गलग्नाः प्रवव्रजुः । अलोभतैवं कर्तव्या, सर्वैरपि महात्मभिः ।२१।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहै: अलोभता (6)
क्षुल्लः । गाथा-१२९०
९१६
********
९१६ [४१२]