SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः खिन्नाङ्गी निरगात्प्रातर्ननान्द्रोचे किमीदृशी । सा रुदत्याह नो जाने, मन्तुं निःसारिता गृहात् ।१३। तयोक्ता तिष्ठ विश्वस्ता, मा भेषीतिरं जगो । भ्रातः ! किमेतत्सोऽवादीत्कार्य दुःशीलया न मे ।१४ । तयाऽभाणि कुतो ज्ञातं, त्वदुपालम्भतः स्वसः ! । ऊचे सा भ्रातरेतत्ते, पाण्डित्यं वाग्विचारणे ।१५। अस्त्रानान्मलिनं शीर्ष, वस्त्राण्यक्षालनात्तथा । शाटिकापि न ते चोक्षेत्युपालब्धा न दोषतः ।१६। लजितोऽथ स्वयं तस्याः, स मिथ्यादुःकृष्कृितं ददौ । दध्यो चैष मम भ्राता, श्वेतकृष्णप्रतीतिमान् ।१७। हस्तं रक्षेरिति प्रोक्ता, भ्रातृजाया द्वितीयका । पत्या चोरीति साऽपास्ता, बोधितः सोऽपि बान्धवः ।१८। धान्यानि खण्डयन्ती त्वं, हस्तं रक्षेरितीरिता । निर्वृतः सोऽपि साऽज्ञासीत्तथेत्यस्याऽपि मद्वचः ।१९।। मायाभ्याख्यानतः किन्तु, सा तत्कर्म न्यकाचयत् । साथाऽन्यदा प्रवव्राज, सजायो भ्रातरावपि ।२०। परिपाल्य व्रतं सर्वे, गच्छन्ति दिवं ततः । भ्रातरौ प्रथमं च्युत्वा, पुरे साकेतनामनि ।२१। इभ्यस्याऽशोकदत्तस्य, पुत्रत्वेनोदपद्यताम् । आद्यः समुद्रदत्तोऽन्यः ख्यातः सागरदत्तकः ।२२। च्युत्वा स्वसा गजपुरे, शङ्खश्राद्धसुताऽभवत् । सर्वाङ्गसुन्दरी नाना, सर्वेष्वङ्गेषु सुन्दरा ।२३। •मन्तुः - अपराधः, तम् । आ.नि. नमस्कारनियुक्तिः। वस्तु द्वारे मायायां सर्वाङ्गसुन्दरी कथा । गाथा-९१८ ५२८ 千羊準準準準準準举 ५२८ [२४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy