________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः
९११
सम्यग्दृशा देवतया, मा विनश्यत्वसाविति । स्त्रीरूपेणोपहाराद्यं, गृहीत्वाऽऽगत्य तत्र सा ।४ । अर्चित्वा व्यन्तरं स्माह, गृहाण क्षपकोद्धृतम् । भक्ष्यभोज्यं गृहीत्वा, तत्खादित्वा प्रतिमां स्थितः ॥५ । अतीसारोऽस्य सञ्जातो, देवताऽऽख्यगुरोरिदम् । साधून् प्रेष्याऽऽनयत्तं स, देवताऽकथयत्पुनः | ६ | दद्याद्विवगिरं दत्तं, भव्योऽभूच्छिक्षितस्ततः । पुनरेतन्न कर्तव्यं गता निःप्र[ष्प्र ]तिकर्मता ॥७॥
अज्ञातता द्वारमाह -
कोसंब अजियसेणो, धम्मवसू धम्मघोस धम्मजसो । विगयभया विणयवई, इड्डिविभूसाइ परिकम्मे ।। १२८६ ।।
कौशाम्बीत्यस्ति पूस्तत्राऽजितसेनो महीपतिः । धारिणीत्यभिधा देवी, तत्र धर्मवसुर्गुरुः | १ | धर्मघोषो धर्मशास्तस्यान्तेवासिनावुभौ । आसीद्विनयवत्याख्या, तत्र तेषां महत्तरा ॥२॥ तच्छिष्या विगतभया, विदधेऽनशनं तपः । महाप्रभावनापूर्व, सङ्घस्तां निरयामयत् ॥३॥ तौ च धर्मवसोः शिष्यो, कुरुतः परिकर्मणाम् ॥३॥
● देवतया भणितः बीजपूरगर्भ दत्त, दत्तः भव्योऽभूत् इत्यर्थः ।
*************
**************
आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता
योगसङ्ग्रहैः
तपसः परजनाऽज्ञापनता । (७) धर्मघोषधर्मयशसौ । गाथा - १२८६ ९११
[ ४०७]