SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९१० ****** अभक्तार्थं मयाऽकारि, निशीथे मृत्युमाप्तवान् । ततश्च मामभुञ्जानां, विदेहे देवताऽनयत् ॥३२॥ तत्र पृष्टः प्रभुः प्राह, ऋषिहत्यात्र ते न तत् । मयाऽऽनिन्येऽध्ययने, स्वाम्युक्ते विमुक्तिभावने |३३| वन्दित्वा तास्ततो याताः, द्वितीयेऽह्नयुपतस्थुषः । न गुरुर्वाचनां दत्ते, स ज्ञात्वा ह्यः कृतं ततः । ३४ । नैतत्पुनः करिष्यामीत्येवं कष्टेन भूयसा । क्षमितोऽध्यापयच्छेषमुक्तो माऽन्यस्य दाः पुनः । ३५ । व्युच्छित्राऽथ चतुःपू[ष्पू]र्वीदशमान्त्यद्विवस्तुयुक् । योगसङ्ग्राहिता चैवं, शिक्षायां स्थूलभद्रवत् ।३६। निःप्र [प] तिकर्मद्वारे वैधम्र्योदाहरणगाथामाह - पइठाणे नागवसू, नागसिरी नागदत्त पव्वज्जा । एगविहा रुट्ठाणे, देवय साहू य विल्लगिरिं । । १२८५ ।। अर्थः कथातो ज्ञेयः - आसीत्प्रतिष्ठानपुरे, श्रेष्ठीनागवसुः पुरा । नागश्रीः श्रेष्ठीनी तस्य, नागदत्तस्तु तत्सुतः ॥ १ । निर्वित्रकामभोगः सन्, व्रतमादत्त सोऽन्यदा । जिनकल्पिकसत्कारं दृष्ट्वाऽवादीगुरूनिदम् ॥२॥ जिनकल्पं करिष्येहमप्याचार्यैर्निवारितः । स्वयं स्वीकृत्य तं चक्रे, प्रतिमां व्यन्तरौकसि ॥ ३ ॥ १. 'नही' खप । ************** **************** आ.नि. प्रति. अ. सूत्र. द्वा. योगसङ्ग्रहैः ग्रहणा. शिक्षा. (५) निष्प्रतिकर्मशरीरता (६) स्थूलभद्रः । नागदत्तः । गाथा - १२८५ ९१० [४०६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy