SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९०८ स्थूलभद्रोऽधिसेहे तां, चिरं परिचितामपि । भवांस्तु प्रार्थयामास, विगुप्तोऽर्थार्जनेन च ।११। गुरुमक्षमयन्नम्रः, स्थूलभद्रं च सोऽथ तम् । रथिकस्यान्यदा कोशां, ददौ राजा पुरोऽस्य सा ।१२। स्थूलभद्रगुणानाख्यन्न तथोपाचर तम् । इतः कथाखण्डं वैनयिक्यामुक्तं - तस्मिंश्च काले संजज्ञे, दुःका[कालो द्वादशाब्दकः ।।१३।। इतस्ततोऽम्बुधेस्तीरे, तमतिक्रम्य साधुभिः । विस्मृतिं याति सिद्धान्ते, गुणनाभावतस्तदा ।१४ । पाटलीपत्तने स्थित्वा, यद्यस्याऽऽयाति तच्छ्रुतम् । मेलयद्भिः समस्तं तैर्मेलितकादशाङ्गिका ।१५। भद्रबाहुादशाङ्गभृन्नेपालेषु तिष्ठति । सङ्घः सङ्घाटकेनोचे, पूर्वाण्यध्यापयेति तम् ।१६। गुरुरूचे महाप्राणं, प्रविष्टोऽस्मि ततोऽधुना । न क्षमो वाचनां दातुं, सङ्घस्याख्यनिवृत्य सः ।१७। पुनः सङ्घाटकेनोचे, सङ्घाज्ञां योऽतिलकृते । को दण्डस्तस्य सोऽवोचत्तदैवोद्घाट्यते हि सः ॥१८॥ ततोऽधुना किं क्रियते, सोऽवक् मोद्धाटनं कृत । शिष्यान् प्रेष्यतां प्राज्ञान्, दास्ये सप्ताह्रि वाचनाः ।१९। भिक्षाचर्यासमायातः, कालवेलाविकालयोः । संज्ञाभूम्यागतश्चैव, तिस्रश्चावश्यके पुनः ।२०। आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) स्थूलभद्रः। गाथा-१२८४ ९०८ [४०४] RXX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy