SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य लघुवृत्तिः आयाते स्थूलभद्रे तु, गुरूत्थाय सम्भ्रमात् । ऊचे ते स्वागतं साधो !, कृतदुष्करदुष्कर!।४००। त्रयोऽपि तेऽथ सासूया, मिथः स्माहुस्तपस्विनः । अमात्यपुत्र इत्येवं, बहमन्यन्त सूरयः ।। अथ सिंहगुहासाधुरन्यप्रावृषि मत्सरात् । कोशागृहे चतुर्मासीकृतेऽभिग्रहमग्रहीत् ।२। आचार्यरुपयुज्याथ, वारितोऽपि जगाम स । वसतिर्मागिता दत्ता, तया तां स निरीक्ष्य च ।३। अनुरक्तोऽर्थयामास, सा नेच्छद्भणति स्म तम् । आनय द्रव्यं लक्षं मे, सोऽवदत् मे कुतो धनम् ।४। सोचे नेपालभूपालः, साधूनां रत्नकम्बलम् । ददाति लक्षमूल्यं स, तत्रागालब्धवांश्च तत् ।५। आगच्छतच चौराणां, लक्षं यातीत्यवक् शुकः । स्तेनसेनापतिर्वीक्ष्याऽऽयान्तं भिक्षमपेक्षत ।६।। गते तत्र पुनः कीरोऽवादीलक्षं गतं ततः । ततस्तमनुगत्योचे, सोऽवग्दण्डेऽस्ति कम्बलम् ।७। नये वेश्याकृते मुक्तो, ययो तस्या ददौ च तम् । तया चन्दनिकायां स, क्षिप्तो वारयतो मुनेः ।८।। सोचे शोचस्यमं न स्वं, त्वमपीदृग् भविष्यसि । मनो विषयपङ्कान्तः, स प्रबुद्धोऽथ तगिरा ।। मिथ्यादुःकृष्कृितमुक्त्वाऽगात्, गुरोरालोचयत्ततः । उपालब्धोऽथ गुरुणा, ज्ञातमात्मपरान्तरम् ।१०। ९०७ आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) स्थूलभद्रः। गाथा-१२८४ ९०७ [४०३] १. 'नस्त्वं' खल, प,।
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy