________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९०६
तो मृतः पिताऽस्माकं भ्रात्रा च विरहोऽभवत् । तव प्रियवियोगोऽभूत्तदेतं पाययाऽऽसवम् ॥८९ । स्वस्वा तदुक्तया चन्द्रप्रभां से पायितः सुराम् । श्रीयकस्येति कोशाख्यत्सोऽथ भावितमम्बुजम् । ९० । नृपास्थाने वररुचेरार्पयत्कस्यचित्करात् । तेनाघ्रातं तदैव द्राक्, तत्रैवावमदासवम् । ११ । निःसारितोऽथ हीलित्वा, प्रायश्चित्तं द्विजा ददुः । तप्तस्य त्रपुणः पानं, तेनाऽसौ पञ्चतां गतः । ९२ । स्थूलभद्रस्तपः कुर्वन्, विहरन् गुरुभिः सह । आगमत्पाटलीपुत्रं, वर्षाकालमुखेऽन्यदा । ९३ । जग्राहाभिग्रहं साधुरेकः सिंहगुहास्थितौ । अन्यः सर्पबिले चान्यः, कूपकाञ्चनदारुणि ॥ ९४ ॥ स्थूलभद्रश्चतुर्मासीं, कर्तुं कोशागृहे पुनः । सिंहसप शमं यातौ, तुष्टा कोशा प्रियागमात् ।९५ ॥ उत्थायोचे विधेयं किं, चतुर्मास्याश्रयोऽस्त्विह । सैव वश्चित्रशालाऽस्ति, स्थितस्तस्यां प्रभुस्ततः । ९६ । रात्री शृङ्गारमाधाय, प्रभुक्षोभार्थमाययौ । न पारितः क्षोभयितुं प्रभुर्मन्दरसोदरः । ९७ । धर्मं श्रुत्वा ततो जज्ञे श्राविका धर्मतत्त्ववित् । राजादिष्टं नरं मुक्त्वा, सा ब्रह्मव्रतमग्रहीत् ।९८ । चतुर्मासीगमे सिंहगुहादेरागतान् मुनीन् । गुरुः स्माह स्वागतं वो, हं हो दुष्करकारकाः ! ।९९ । १. 'त्रपुणा' ख प, । २. साऽवदचित्रशाला' ल 'इतः ' वररुचेः, 'स' वररुचिः । * स्वस्रा उपकोशया इत्यर्थः ।
******************************
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
द्वात्रिंशता
योगसंग्रहैः
ग्रहणासेवन
शिक्षाद्वया
ऽऽसेविता (५)
स्थूलभद्रः ।
गाथा - १२८४ ९०६
[ ४०२ ]