________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९०५
घ्नतः पापं न ते सोऽथ, तदादिष्टं तथाकरोत् । हाहा अकार्यमित्यूचे, राजाऽथ श्रीयकोऽवदत् ।७७ । यो वो नेष्टः सो नोऽप्येवं, ततः संस्कार्य तं नृपः । श्रीयकं स्माह मन्त्री स्याः, सोऽवक् भ्रातास्ति मे बृहत् ।७८ । कोशागृहे स्थूलभद्रस्तमथाऽजूहवन्नृपः । निर्ययौ द्वादशाब्दान्ते, राज्ञोक्तः स्माह चिन्तये ।७९। राजोचेऽशोकवन्यन्तश्चिन्तयाऽन्यत्र मा गमः । सोऽथ तत्र गतो दध्यौ, क्व भोगा राज्यचिन्तने ।८०। मुद्रेयं खलु पारवश्यजननी सौख्यछिदे देहिनाम् । नित्यं कर्कशकर्मबन्धनकरी धर्मान्तरायावहा ।८१। राजार्थकपरेव संप्रति पुनः स्वार्थप्रजार्थापहत् । तद्रुमः किमतः परं, मतिमतां लोकद्वयाऽपायकृत् ।८२। गतिश्च नरकान्ता स्यात्कृत्वा लोचं ततस्तदा । रत्नकम्बलदशाभी, रजोहरणमष्यथ ।८३। नृपमेत्या चावदद्धर्मलाभस्तेऽस्त्विति चिन्तितम् । राजोचे निर्वहः सष्ठ, यातोऽसौ दध्यिवानपः ८४ । मिषात्कोशागृहे यास्यतीत्येक्षिष्टोपरि स्थितः । मृतकेभ्यो जनोऽपैति, मुखानि पिदधाति च ।८५ । निर्विकारः स भगवान्, ययौ दृष्ट्वाथ भूभृता । श्रीयकः स्थापितो मन्त्री, स्थूलभद्रः पुनर्मुनिः ।८६ । सम्भूतसूरेः शिष्योऽभूत्, श्रीयको भ्रातुरञ्जसा । मिलितुं याति कोशायाः, स्थूलभद्ररता च सा ।८७। मनुष्यमीहते नान्यमुपकोशा तु तत्स्वसा । तत्संभोक्ता वररुचिस्तत्कोशां श्रीयकोऽवदत् ।०८। १. 'छिदोह देहि...' ख 'छिदेहिनां' ल ।
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता।(५)
स्थूलभद्रः। गाथा-१२८४
९०५ [४०१]